SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे ३०० पश्चिमां पौरुषीं दिवसस्य चरमपौरुषीमित्यर्थः 'उवाइणावेइ' अतिक्रामति उल्लङ्घयति चरमपौरुषीपर्यन्तं स्थापयतीत्यर्थः ‘उवाइणावतं वा साइज्जइ' अतिकामन्तं वा स्वदते स प्रायश्चित्तभागी भवति पर्युषितदोषसंभवात् ॥ सू० ३१|| सूत्रम् -- जे भिक्खू परं अद्धजोयणमेराओ परेण असणं वा ४ उवाइणावेइ उवाइणावेंतं वा साइज्जइ ॥ सू० ३२ ॥ छाया— यो भिक्षुः परमर्द्धयोजनमर्यादातः परेण अशनं वा ४ अतिक्रामयति अतिक्रामयन्तं वा स्वदते ॥ सू० ३२ ॥ चूर्णी 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः श्रमणः श्रमणी वा 'परं अद्धजोयणमेराओ' परमर्द्धयोजनमर्यादातः - कोशद्वयमर्यादातोऽग्रे 'परेणं' परेण अन्येन श्रावकादिना श्रावकादिद्वारा समानीतमित्यर्थः ' असणं वा ४' अशनं वा चतुर्विधमाहारजातम् 'उवाइणावेइ' अतिकामयति-अशनादेरुल्लंघनं कारर्यात अर्थात् अत्र गृहीतमाहारं क्रोशद्वयादधिकमपि दूरं भोक्तुमन्यद्वारा नर्यात, अथवा कोशद्वयादपि अधिकरतोऽशनादिकमाहारजातं परद्वारा आनयति आनयनं कारयति तथा 'उवाइणावेंतं वा साइज्जइ' अतिक्रामयन्तं वा स्वदते अनुमोदते, क्रोशद्वयादधिकदूरमशनादि परेण यः नयति आनयति वा तं तादृशं श्रमणमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ३२ ॥ सूत्रम् — जे भिक्खू दिया गोमयं पडिग्गाहेत्ता दिया कार्यंसि वणं आलिपेज्ज वा विलिपेज्ज वा आलिपंत वा विलिपतं वा साइज्जइ ॥ छाया - यो भिक्षुदिवा गोमयं प्रतिगृह्य दिवा काये व्रणमालिम्पेत् वा विलिम्पेत् वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते ॥ सू० ३३|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया' दिवा - दिवसे 'गोमयं ' गोमयं 'गोबर' इति भाषाप्रसिद्धम् 'पडिग्गाहेत्ता प्रतिगृह्य - रात्रौ स्थापयित्वा 'दिया' दिवा - द्वितीयदिवसे 'कार्यसि वणं' काये व्रणम् तत्र काये शरीरे जायमान पामादिजन्यं व्रणम् 'आलिपेज्ज वा' आलिम्पेत् वा एकवारम् 'विलिपेज्ज वा' विलिम्पेत् वा अनेकवारम् | 'आलिपतं वा' आलिम्पन्तं वा एकवारं लेपं कुर्वन्तं 'विलिपतं वा विलिम्पतं वा अनेकवारं लेपं कुर्वन्तं वा 'साइज्जइ' स्वदते अनुमोदते स प्रायश्वित्तभागी भवति ॥ सू० ३३ ॥ सूत्रम् — जे भिक्खू दिया गोमयं पडिग्गाहेत्ता रत्ति कार्यंसि वर्ण आलिपेज्ज वा विलिपेज्ज वा आलिपतं वा विलिपंतं वा साइज्जइ ॥ सू० ३४ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy