SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १२ सू० ३०-३३ आहारादिमर्यादाऽतिक्रमणनिषेधः २९९ छाया-यो भिक्षुरैहलोकिकेषु वा रूपेषु पारलोकिकेषु वा रूपेषु दृष्टेषु वा रूपेषु अदृष्टेषु वा रूपेबु विज्ञातेषु वा रूपेषु अविज्ञातेषु वा रूपेषु स्वजति रज्यति गृध्यति अध्युपपद्यते स्वजन्तं वा रज्यन्तं वा गृध्यन्तं वा अध्युपपद्यमानं वा स्वदते ॥सू०३०॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'इहलोइएसु वा रूवेसु' ऐहलोकिकेषु वा रूपेषु, तत्र ऐहलौकिकाः मनुष्यस्यादिपदार्थाः तत्सम्बन्धिषु रूपेषु अनुरागकारणभूतपदार्थेषु 'परलोइएसु वा रूवेसु' पारलोकिकेषु वा, तत्र पारलोकिको देवदेव्यादिहस्तितुरगादिर्वा, तत्संबन्धिषु रूपेषु अनुकूलवेदनीयेषु रूपादिषरार्थजातेषु 'दिढेसु वा रूवेसु' दृष्टेषु वा रूपेषु पूर्व प्रत्यक्षतो दृष्टेषु रूपादिषु वस्तुजातेषु 'अदिढेसु वा रूवेसु' अदृष्टेषु वा रूपेषु, तत्रादृष्टा देवादयः तत्संबन्धिषु रूपादिषु 'सुएमु वा रूवे' श्रुतेषु वा रूपेषु श्रवणेन्द्रियेण साक्षात्कृतेषु श्रवणेन्द्रियजन्यज्ञानविषयतावत्सु अनुकूलवेदनीयपदार्थजातेघु 'असुएसु वा रूवेसु' अश्रुतेषु कर्णपथमनागतेषु वा रूपेषु पदार्थजातेषु 'विन्नाएमु वा रूवेसु' विज्ञातेषु वा रूपेषु वर्तमानकालिकानुभवात्मकज्ञानविषयतावत्सु पदार्थजातेषु ‘अविन्नाएसु वा रूवेसु' अविज्ञातेषु वा रूपादिषु मानसिकानुभवात्मकज्ञानविषयेषु अनुकूलवेदनीयपदार्थजातेषु उपर्युक्तहलोकिकादिपदार्थजातेषु यः श्रमणः श्रमणी वा 'सज्जइ' स्वजति आसक्तिमान् भवति 'रज्जइ' रज्यति तस्मिन् रूपादिषु अनुरागवान् भवति 'गिज्झइ' गृद्ध्यति रूपादिपदार्थेषु गृद्धिमान् भवति तेषु गृद्धिभावं प्राप्नोति, तत्र सर्वदा समुपलभ्यमानेष्वपि अभिरमणं गृद्धिः तां प्राप्नोति 'अझोववज्झई' अध्युपपद्यते अतिशयेनासक्तिमान् भवति तथा 'सज्जंत' स्वजन्तम्-आसक्ति कुर्वन्तम् 'रज्जतं' रज्यन्तम् रूपादिष्वनुरागं कुर्वन्तम् 'गिझंत' गृद्धयन्तं रूपादिषु गृद्धिभावं कुर्वन्तम् 'अज्झोववजंतं' अध्युपपद्यमानम् अतिशयेनासक्ति कुर्वन्तम् 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तेषु सङ्गादिकरणेन चारित्रपतनसंभवादिति ॥ सू० ३०॥ सूत्रम्--जे भिक्खू पढमाए पोरिसीए असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता पच्छिमं पोरिसिं उवाइणावेइ उवाइणावेतं वा साइज्जइ ॥ सू० ३१॥ छाया-यो अिक्षुः प्रथमायां पौरुष्यामशन वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह पश्चिमां पौरुषींमतिकामति अतिक्रामन्तं वा स्वदते ।। सू० ३१॥ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पढमाए पोरिसीए' प्रथमायां पौरुष्याम् दिवसस्य प्रथमपौरुष्यामित्यर्थः 'असणं वा ४' अशनं वा ४ चतुर्विधाहारजातम् 'पडिग्गाहेत्ता' प्रतिगृह्य-गृहस्थेभ्य आनीय 'पच्छिमं पोरिसिं' શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy