________________
चूर्णिभाष्यावचूरिः उ०१२ सू० १४-१५ पुराकर्मिकजलार्द्रहस्तादिना भिक्षाग्रहणनिनिषेधः २८९
छाया-यो भिक्षुः पुराकर्मकृतेन हस्तेन वा मात्रकेण वा दा वा भाजनेन वा अशनं वा पानं वा खाद्य वा स्वाद्य वा प्रतिगृह्णाति प्रतिगृह्यन्तं वा स्वदते ॥सू० १४॥
चूर्णिः- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पुरेकम्मकडेण' पुराकर्मकृतेन 'हत्थेण' हस्तेन, हस्तादीनां सचित्तजलादिना दानात्पूर्व प्रक्षालनादिकरणं पुराकर्म तादृशपुराकर्मयुक्तेन हस्तेनेत्यर्थः 'मत्तेण वा' मात्रकेण पुराकर्मकृतपात्रेणेत्यर्थः 'दवीए वा' दा वा पुराकर्मयुक्तया दा ‘कडछी' इति भाषाप्रसिद्धया 'भायणेण वा' भाजनेन पुराकर्मयुक्तेन भाजनेन स्थाल्यादिनेत्यर्थः 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनादिचतुर्विधमाहारं 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वीकुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारः भाष्यम्- कह होइ पुरेकम्म, साहुनिमित्तं च किज्जए पुव्वं ।
___ दाणाओ पत्तहत्था,-ईणं ज धावणप्पभिई ॥१॥ छाया-कथं भवति पुराकर्म, साधुनिमित्तं च क्रियते पूर्वम् ।
___दानात् पात्रहस्तादीनां यत् धावनप्रभृति ॥१॥ __ अवचूरिः-अत्र शिष्यः पृच्छति- हे गुरो ! पुराकर्म कथं भवति कीदृशं कथं च पुराकर्म भवतीति । गुरुराह शृणु हे शिष्य ! यत् साधुनिमित्तं साधवे वस्तुदानमाश्रित्य दानात् पूर्व पात्रहस्तादीनां, तत्र पात्रस्य संसृष्टस्य पिष्टादिना खरण्टितस्याशुद्धस्य वा तादृशयोर्हस्तयोर्वा आदिशब्दात् दादीनां धावनप्रभृति धावनादिकं क्रियते तत् पुराकर्म कथ्यते । यथा गृहस्थगृहे भिक्षार्थ साधुरायातः तत्समये पात्रं दातव्यवस्तुनो विरुद्ध पदार्थेन खरण्टितमा, वा जलेन भवेत् अन्यद्वा पात्रं नोपस्थितं भवेत् तदवस्थायां भिक्षादानात्पूर्व तत् पात्रं गृहस्थः सचित्तजलेन प्रक्षालयति धूलिवस्त्रादिना वाऽऽद्र पात्रं शुष्कं करोति, एवं हस्तविषयेऽपि करोति तदा तत् पुराकम भवति, सचित्तजलादिजन्यारम्भदोषसद्भावात्, तादृशेन हस्तादिना दीयमानमशनादि साधुन गृह्णीयात् न वा तादृशमशनादि गृह्णन्तमनुमोदेत, एवं करणे साधुः प्रायश्चित्तभागी भवति भगवदाज्ञाभङ्गादिदोषप्रसङ्गादिति ॥ सू० ४॥
सूत्रम्-जे भिक्खू गिहत्थाण वा अण्णतित्थियाण वा सीओदगपरिभोगेण हत्थेण वा मत्तेण वा दव्वीए वा भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू०१५||
શ્રી નિશીથ સૂત્ર