SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ २८८ निशीथसूत्रे सूत्रम्-जे भिक्खू गिहिवत्थं परिहेइ परिहतं वा साइज्जइ ॥सू०११॥ छाया--यो भिक्षुः गृहिवस्त्रं परिदधाति परिदधन्तं वा स्वदते ॥सू० ११॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिहिवत्थं' गृहस्थवस्त्रं गृहस्थेन परिधृतं वस्त्रम् 'परिहेइ' परिदधाति श्रावकादिवसस्य परिधानं करोति कारयति वा तथा 'परिहेंतं वा साइज्जई' परिदधन्तं वा स्वदते स प्रायश्चित्तभागी भवति । पात्रग्रहणे ये पुराकर्मपश्चात्कर्मादिदोषाः कथितास्ते दोषा इहापि ज्ञातव्याः ॥सू०११॥ सूत्रम्-जे भिक्खू गिहिनिसेज वाहेइ वाहेंतं वा साइज्जइ ॥१२॥ छाया—यो भिक्षुहिनिषद्यां वहति वहन्तं वा स्वदते ॥९० १२॥ चूर्णि:-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा गिहिनिसेज्ज' गृहिनिषद्याम् , तत्र गृहिणो गृहस्थस्य निषद्या-आसनं पर्यङ्कादि यत्र उपविश्यते ताहशीं निषद्याम् 'वाहेइ' वहति-निषीदति गृहस्थस्य निषद्योपरि समुपविशति । 'वाहते वा साइज्जइ' वहन्तं वा स्वदते, उपविशन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । अयं भावः-भिक्षाचर्यादिप्रसंगेन गृहिगृहं गतः श्रमणः गृहस्थस्य पर्यादौ समुपविश्य वार्तालापं कुर्यात् धर्मकथादिकं वा श्रावयेत् तदा गृहस्थप्रायोग्यासने समुपविष्टस्य ब्रह्मचर्यभङ्गप्रसङ्गः भुक्तभोगानां स्मरणसंभवात् । तथा लोकानां साधुब्रह्मचर्ये शङ्कापि प्रादुर्भवेत् कथमयं श्रमणो भूत्वापि गृहस्थासने समुपविष्टः ! एवम् अनेकेषां चित्ते अनेकप्रकारिका शङ्का प्रादुर्भूता स्यात् तस्मात्कारणात् श्रमणः श्रमणो वा गृहस्थस्यासने कदापि नोपविशेत् न वा समुपविशन्तमनुमोदेत ।। सू० १२॥ सूत्रम्-जे भिक्खू गिहितेइच्छं करेइ करते वा साइज्जइ ।। सू०१३॥ छाया-यो भिक्षुहिचिकित्सां करोति कुर्वन्तं वा स्वदते ॥ सू०१३॥ चूणि:-'जे भिक्खू' इत्यादि 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिहितेइच्छं' गृहिचिकित्सा, तत्र गृही गृहस्थः, तस्य चिकित्सा रोगप्रतीकारलक्षणा ताम् 'करेइ' करोति, यो भिक्षुर्गृहस्थस्य वमनविरेचनपानादिप्रकारैः रोगस्य ज्वरादेः विषूचिकादेर्वा प्रतीकारमोषधाधुपचारं करोति तथा 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते स प्रायश्चितभागी भवति ।। सू० १३॥ सूत्रम्-जे भिक्खू पुरेकम्मकडेण हत्थेण वा मत्तेण वा दवीए वा भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ।। सू० १४॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy