________________
२८६
निशीथसूत्रे 'पलालपीढगं वा' पलालपीठकं वा पलालमयं पीठकम् 'छगणपीढगं वा' छगणपीठकं गोमयपीठकं वा 'वेत्तपीढयं वा' वेत्रपीठकं वा, तत्र वेत्रं नाम लताविशेषः तेन संपादितं फलकादिकं वेत्रपीठकम् , एतादृशं पीठफलकादिम् 'परवत्थेणोच्छन्नं' परवस्त्रेणावच्छन्नम् , तत्र परो गृहस्थः श्रावकोऽश्रावको वा तस्य यद् वस्त्रम् तेन आच्छादितं पीठफलकादिकं यो भिक्षुः 'अहिटेड' अधितिष्ठति तदुपर्युपविशति शेते त्यावर्तनं वा करोति कारयति वा परम् स तथा 'अहिडेतं वा साइज्जई' अधितिष्ठन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति गृहस्थवस्त्रोपभोगदोषप्रसङ्गात् ।। सू० ६॥
सूत्रम्-जे भिक्खू णिग्गंथीणं संघाडि अण्णउत्थिएण वा गारत्थिएण वा सिव्वावेइ सिव्वातं वा साइज्जइ ॥ सू०७॥
छाया-यो भिक्षुर्निर्ग्रन्थीनां संघाटीम् अन्ययूथिकेन वा गृहस्थेन वा सीवयति सीवयन्तं वा स्वदते ॥सू० ७॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः आचार्य उपाध्यायादिको वा 'णिग्गंथीणं' निर्ग्रन्थीनां श्रमणीनाम् 'संघार्डि' संघाटीम्-शाटिकाम् उपलक्षणत्वात् कञ्चुक्यादिकं किमपि उपकरणम् 'अण्णउत्थिएण वा अन्ययूथिकेन वा अन्यतीर्थिकेन साधुना 'गारथिएण वा' गृहस्थेन वा-श्रावकादिना 'सिव्वावेई' सीवयति--संधापयति तथा 'सिव्वातं वा साइज्जई' सीवयन्तं संधापयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागो भवति संयमविराधना आत्मविराधना च भवति । यथा-निर्ग्रन्थी कार्यकरणेन सा प्रसन्ना मोहग्रस्ता वा साधु स्त्रीमोहे पातयतीत्यादिकारणात् संयमविराधना । मोहग्रस्ता सा साधोरुपरि वशीकरणचूर्णादिप्रयोग वा करोति तेन ग्रहगृहीतो वा भवेदित्यात्मविराधना । लोके उड्डाहो वा भवेत् यदयं निर्ग्रन्थीमोहमोहितो वर्तते अवश्यमनया सहास्य कोऽपि गोप्यः संबन्धो विद्यते येन निर्ग्रन्थ्या वनसीवनादिकं गृहस्थादिना कारयतीति साधुना निम्रन्थीसंघाटयाः सीवनं न कारयितव्यमिति भावः ॥सू० ७॥
सूत्रम्-जे भिक्खू पुढवीकायस्स वा आउकायस्स वा अगणिकायस्स वा वाउकायस्स वा वणस्सइकायस्स वा कलमायमवि समारभइ सभारभंतं वा साइज्जइ ॥सू०८॥
छाया-यो भिक्षुः पृथिवीकायस्य वा अप्कायस्य वा अग्निकायस्य वा वायुकायस्य वा वनस्पतिकायस्य वा कलायमात्रमपि समारभते समारभमाणं वा स्वदते ॥
શ્રી નિશીથ સૂત્ર