________________
चूर्णिभाष्यावचूरिः उ० १२ सू० ३-८
प्रत्याख्यानभङ्गादिनिषेधः २८५
अदृढत्वं जायेत, तथा अन्यं परित्यक्ष्यति करिष्यति चान्यमिति माया स्यात्, अन्यं भाषते अन्यं करोतीति मृषावादोऽपि भवेत्, एवं करणे सूत्रार्थपौरुषीणां विनाशोऽपि भवेत्, इत्यादयो बहवो दोषा भवन्ति तस्मात्कारणात् प्रत्याख्यानस्य भङ्गं न कुर्यात् न वा प्रत्याख्यानभङ्गं कुर्वन्तमनुमोदेत ॥ सू० ३ ॥
सूत्रम् — जे भिक्खू परित्तकायसंजुत्तं आहारं आहारेइ आहारतं वा साइज्जइ ॥ सू० ४ ॥
--
छाया - यो भिक्षुः परीतकायसंयुक्तमाहारमाहरति आहरन्तं वा स्वदते ॥४॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् निर भिक्षुः श्रमणः श्रमणी वा 'परित्तकायसंजुत्तं' परीत्तकायसंयुक्तं, तत्र परीतकायः - वनस्पतिकायः साधारण प्रत्येकेति - द्विविधो वनस्पतिकायः, तेन सचित्तवनस्पतिकायेन संयुक्तं संमिलितम् आहारम् - अशनपानखाद्यस्वाद्यात्मकचतुर्विधमाहारम् ' आहारेइ' आहरति भुङ्क्ते तथा 'आहारेंतं वा साइज्जइ ' आहरन्तम् सचित्तवनस्पतिकायसंयुक्तमशनादिकं भुञ्जानं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ४ ॥
सूत्रम् - जे भिक्खू सलामाईं चम्माई धरेइ धरेंतं वा साइज्जइ ॥
छाया - यो भिक्षुः सलोमानि वर्माणि धरति घरन्तं वा स्वदते ||सू० ५||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'सलोमाई' सलोमानि - रोमयुक्तानीत्यर्थः 'चम्माई' चर्माणि मृगादीनाम् ' घरेइ' घरति स्वसमीपे उपभोगाय स्थापयति तत्रोपविशति तत्र निषीदति तत्र त्वग्वर्तनं च करोति, तथा 'धरें वा साइज्जइ' धरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति तेषां दुष्प्रतिलेख्यत्वात् । देशविशेषे हिमबाहुल्यादिकारणवशाच्चर्मधारणमावश्यकं भवेत्ततस्तद्विषयकोऽयं निषेध इि विवेकः ॥ सू० ५ ॥
सूत्रम् - जे भिक्खू तणपीढगं वा पलालपीढगं छगणपीढगं वेत्तपीढगं परवत्थेोच्छन्नं अहिट्ठेइ अहितं वा साइज्जइ ॥ सू० ६ ॥
छाया - यो भिक्षुः तृणपीठकं वा पलालपीठकं वा छगण (गोमय) पीठकं वा वेत्रपीठकं वा परवस्त्रेणावच्छन्नमधितिष्ठति अधितिष्ठन्तं वा स्वदते ॥ सू० ६ ||
चूर्णी - 'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'तणपीढगं वा तृणपीठकं वा, तत्र तृणो दर्भादिकः, तस्य पीठमित्यर्थः तृणमयमासनमिति यावत्
શ્રી નિશીથ સૂત્ર