SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० ११ सू० ९२ गिरिपतनादिविंशतिविधमरणप्रशंसानि० २७९ पिप्पल्यादिकं यः श्रमणः श्रमणी वा 'आहारेई' आहरति पर्युषितपिपल्यादीनाम् उपभोगं करोति तथा 'आहारेतं वा साइज्जइ' आहरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू९४॥ सूत्रम्--जे भिक्खू गिरिपडणाणि वा मरुपडणाणि वा भिगुपडणाणि वा तरुपडणाणि वा गिरिपक्खंदणाणि वा मरुपक्खंदणाणि भिगुपक्वंणाणि वा तरुपक्खंदणाणि वा जलप्पवेसाणि वा जलणपवेसाणि वा जलपक्खंदणाणि वा जलणपक्खंदणाणि वा विसभक्षणाणि वा सत्थोपाडणाणि वा वलयमरणाणि वा वसट्टाणि वा तब्भवमरणाणि वा अंतोसल्लमरणाणि वा वेहायसाणि वा गिद्धपट्ठाणि वा जाव अण्णयराणि वा तहप्पगाराणि वा बालमरणाणि पसंसइ पसंसंतं वा साइज्जइ | मू०९५ ) छाया---यो भिक्षुः गिरिपतनानि वा १, मरुपतनानि वा २, भृगुपतनानि वा ३, तरुपतनानि वा ४, गिरिप्रस्कन्दनानि वा ५, मरुप्रस्कन्दनानि वा ६, भृगुप्रस्कन्दनानि ७, तरुप्रस्कन्दनानि वा ८, जलप्रवेशनानि वा ९, ज्वलनप्रवेशनानि वा १०, जलप्रस्कन्दनानि वा ११, ज्वलनप्रस्कन्दनानि वा १२, विषभक्षणानि वा १३, शस्त्रोत्पातनानि वा १४, वलयमरणानि वा १५ वशार्तमरणानि वा १६, तद्भवमरणानि वा १७, अन्तःशल्यमर• णानि वा १८, वैहायसानि वा १९, गृद्धस्पृष्टानि वा २० यावद् अन्यतराणि वा तथाप्रकाराणि वा बालमरणानि प्रशंसति प्रशंसन्तं वा स्वदते ॥सू०९५॥ चूर्णी:--- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिरिपडणाणि वा' गिरिपतनानि वा-पर्वतापात् पतनानि, मरणप्रसङ्गात् गिरिपतनमरणानी त्यर्थः, एवमग्रेऽपि, 'मरुपडणाणि वा' मरुपतनानि वा मरौ ऊषरभूमौ धूलीपुजे वा पतनम् मरुपतनम् , मरौ ऊपरभूमौ शरीरपातनं, यद्वा यत्रतः पतनं दृश्यते तद् गिरिपतनम् , अदृश्यमानं पतनं मरुपतनम् , तानि, 'भिगुपडणाणि वा' भृगुपतनानि वा-नदोतटादितः गर्मोदितो वा पतनं भृगुपतनं, तानि, 'तरुपडणाणि वा' तरुपतनानि वा-तरुशाखामवलम्ब्य पतनं तरुपतनम् तानि, 'गिरिषक्खंदणाणि वा' गिरिप्रस्कन्दनानि वा-प्रस्कन्दनं-गिरित उल्लुप्य पतनं, ता न, पतनप्रस्कन्दनयोरयं भेदः-पतनं सामान्यतो लुठनम् , प्रस्कन्दनमुत्प्लुपुत्य-कूर्दयित्वा पतनमिति । 'मरुपक्खंदणाणि वा' मरुप्रस्कन्दनानि वा-ऊषरभूमौ धूलिपुजे वा उत्प्लुत्य पतनानि 'भिगुपक्खंदणाणि वा' भृगुप्रस्कन्दनानि वा-नदीतटादिषु गर्तादिषु अदृश्यमानस्थाने वा उत्प्लुत्य पतनानि, 'तरुपक्खंदणाणि वा' तरुप्रस्कन्दनानि वा वृक्षत उत्प्लुत्य पतनानि, 'जलप्पवेसणाणि वा' जलप्रवेशनानि वा नदीकूपतडागादिषु प्रवेशनानि 'जलणप्पवेसणाणि वा' ज्वलनप्रवेशनानि वा શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy