SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २७८ निशीथसूत्रे छाया--- यो भिक्षुरचेलः सचेलकानां मध्ये संवसति संवसन्तं वा स्वदते ॥१२॥ चूर्णी:-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अचेले' अचेलो जिनकल्पी. 'सचेलगाणं मज्झे' सचेलकानां स्थविरकल्गिकानां मध्ये समुदाये 'संवसई' संवसति निवासं करोति 'संवसंतं व, साइज्जई' संवसन्तं वा सचेलकानां समुदाये निवासं कुर्वन्तं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०९२॥ सूत्रम्--जे भिक्खू अचेले अचेलगाणं मज्झे संवसइ संवसंतं वा साइज्जइ ।।सू० ९३ ॥ छाया--यो भिक्षुरचेलोऽचेलकानां मध्ये संवसति संवसन्तं वा स्वदते ॥सू०९३॥ चूर्णीः- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'अचेले' अचेल:-जिनकल्पिकः 'अचेलगाणं' अचेलकानां जिनकल्पिकानाम् 'मज्झे' मध्ये 'संवसई' संवसति-निवासं करोति 'संवसंत वा साइज्जइ' संवसन्तं निवासं कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति जिनकल्पिकस्य एकाकिविहारविधानात् । यतो जिनकल्पिकाः परस्य सहायतां नेच्छंति-एकान्तवासस्यैव तेषां शास्त्रसिद्धत्वात् , एतादृशस्थितो यदि जिनकल्पिको जिनकल्पिकानां मध्ये निवसति तदा तीर्थकृतामाज्ञा विराधिता भवति, अतो जिनकल्पिकः साधुः जिनकल्पिकानां मध्ये न वसेत् न वा वसंतमनुमोदेत शास्त्रमर्यादाभङ्गप्रसङ्गात् ॥ सू०९३॥ सूत्रम्--जे भिक्खू पखिसियं पिप्पलिं वा पिप्पलिचुण्णं वा सिंगवेरं वा सिंगवेरचुण्णं वा विलं वा लोणं उब्भियं वा लोणं आहारेइ आहारेत वा साइज्जइ ॥सू० ९४ ॥ छाया-यो भिक्षुः पर्युषितां पिप्पलिं वा पिप्पलिचूर्ण वा शृङ्गवेरं वा शृङ्गवेरचूर्ण वा विलं वा लवणम् उद्भिदं वा लवणम् आहरति आहरन्तं वा स्वदते ॥ सू०९४॥ चूर्णी --- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परिवसियं' पर्युषितम् , तत्र 'परिवसियं' नाम रात्रौ स्थापितं यत् तत् तादृशीम् 'पिप्पलिं वा' पिप्पलिं वा अचित्तपाचितपिप्पलीम् 'पिप्पलिचुण्णं वा' लघुपिप्पलीचूर्ण वा 'सिगंबेरं वा' शृङ्गबेरं वा शुष्कमाद्रकं सुंठीति लोकप्रसिद्धम् 'सिंगबेरचुण्णं वा' शृङ्गवेरचूर्ण वा सुंठीचूर्ण वा 'विलं वा लोणं' विलं वा लवणम् यत्र देशे लवणो न प्रादुर्भवति तत्रोषरमृत्तिकां पाचयित्वा लवणः संपाद्यते तादृशं लवणं विललवणमिति कथ्यते 'उभियं वा लोणं' उद्भिदं वा लवणम् , तत्र उद्भिद्लवणः स्वयं जायमानो यथा सैन्धवः, यः स्वस्वभावत एव संजातस्तम् । एवमादिकं पर्युषितं શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy