SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ vvvvvvvvvv चूर्णिभाष्यावचूरिः उ० ११ सू०१२-६५ अन्यप्तीथिकादिपादामार्ननादिस्वपरभापननि० २६५ साइज्जई' आमार्जयन्तमेकवारमेकदिनं वा प्रमार्जयन्तमनेकवारं प्रतिदिनं वा प्रमाजनं कुर्वन्तं श्रमणं स्वदते अनुमोदते । यो हि श्रमणः श्रमणी वा अन्ययूथिकस्य श्रावकादेर्वा चरणयोरेकवारमनेकवारं वा रजोहरणादिना प्रमार्जनं करोति तथा प्रमार्जयन्तमनुमोदते स प्रायश्चित्तभागी भवति ||सू० ११ ॥ सूत्रम–एवं तइयउद्देसगमा णेयध्वो णवरं अण्णअस्थियस्स वा गारत्थियस्स वा अभिलावो जाव जे भिक्खू गामाणुगाम दूइज्जमाणे अण्णउत्थियस्स वा गारत्थियस्स वा सीसदुवास्यिं करेइ करेंतं वा साइज्जइ ॥सू० १२-६६॥ छाया-एवं तनोयोद्देशकगमो ज्ञातव्यः नवरम् अन्ययूथिकस्य वा गृहस्थस्य वा अभिलापो यावत् यो भिक्षुः प्रामानुग्रामं द्रवन् अन्ययूथिकस्य वा गृहस्थस्य वा शीर्षद्वारिकां करोति कुर्वन्तं वा स्वदते ॥सू. १२-६३॥ चूर्णी-एवमुपयुक्तप्रकारेण तृतीयोद्देशकस्य गमः प्रकारः स अत्रापि एकादशोदेशकेऽपि ज्ञातव्यः, नवरम्-विशेषोऽयं यदत्र 'अन्ययूथिकस्य वा गृहस्थस्य वा' इत्येवं प्रकारकः अभिलापः सूत्रोच्चारणप्रकारो वक्तव्यः, कियत्पर्यन्तं तृतीयोद्देशकगमो ज्ञातव्यः ? अत्राह'जाव' इत्यादि । 'जाव' यावत्पर्यन्तं शीर्षद्वारिकासूत्रम् पादामार्जनषोडशतमसूत्रादारम्य एकसप्ततितमशीर्षदौवारिकासूत्रपर्यन्तषट्पश्चाशत् सूत्राणि अत्रापि एकादशोदेशके वक्तव्यानीति भावः ॥१२-६६॥ सूत्रम्--जे भिक्खू अप्पाणं बीहावेइ बीहावेत वा साइज्जइ । छाया-यो भिक्षुरात्मानं भापयति भापयन्तं वा स्वदते ॥सू० ६७॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अप्पाणं' स्वकमेव 'बीहाबेइ' भापयति भयात्तै करोति 'बीहावेतं वा साइज्जई' भापयन्तं वा स्वदतेऽनुमोदवते ॥सू० ६७॥ सूत्रम्-जे भिक्खू परं बीहावेइ बीहावेत वा साइज्जइ सू० ६५॥ छाया-यो भिक्षुः परं भापयति भापयन्तं वा स्वदते ॥सू० ६५॥ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy