________________
२६४
निशीथसूत्रे छाया-धर्मश्च विविध उक्तः, श्रुतचारित्रलक्षणः ।
तस्याऽवर्णो द्विधा भवति, तं वदेत् दोषभाग् भवेत् ॥१॥ अवचूरिः --धर्मः नरकपातादिदुर्गतिसकाशात् धारकः, स द्विविधो द्विप्रकारको भवति श्रुत्रचारित्रभेदात् , तत्र एकः श्रुतधर्मः. अपरः खलु चारित्रधर्मश्च, तत्र श्रुतधर्मः आगमलक्षणः, स पुनर्द्विविधः सूत्रे अर्थे च। चारित्रधर्मस्तु श्रमणधर्मः, अयं च चारित्रधर्मोऽपि द्विविधो भवति, अगारधर्मः देशतश्चारित्रभावात् , अनगारधर्मश्च, पुनश्चायं प्रत्येकं द्विविधः- मूलगुणलक्षणः उत्तरगुणलक्षणश्च, तस्यैवंप्रकारस्य धर्मस्यावर्णवादो द्विधा द्विप्रकारको भवति देशतोऽवर्णवादः सर्वतोऽवर्णवादश्च । तं तादृशमवर्णवादं यदि श्रमणः श्रमणी वा वदेत् वदन्तं वा स्वदते स दोषभाग् भवेत् , दोषाश्चआज्ञा भङ्गानवस्थामिथ्यात्वादिकास्तेषां स भाजनं भवतीति भावः । यस्मात् कारणात् श्रुतचारित्रलक्षणधर्मस्यावर्णवाद करणे पूर्वोक्ता दोषा भवन्ति तस्मात् कारणात् श्रमणः श्रमणी वा धर्मस्यावर्ण न स्वयं वदेत् न वा वादयेत् न वा धर्मस्यावर्ण वदन्तं श्रमणान्तरं कथमप्यनुमोदयेत् ॥ सू० ९ ॥
सूत्रम्-जे भिक्खू अधम्मस्स वण्णं वयइ वयंत वा साइज्जइ ॥१०॥ छाया --यो भिक्षुरधर्मस्य वर्ण वदति ददन्तं वा स्वदते ॥सू० १०॥
चूर्णी -- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अधम्णस्स' अधर्मस्य हिंसादिलक्षणस्य 'वण्णं' वर्ण-प्रशंसनं यशः कीर्ति वा 'वयइ' वदतिकथयति लोकानां पुरतो हिंसादिलक्षणधर्मस्य प्रशंसां करोति तथा 'वयंत बा साइज्जई' वदन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, अधर्मस्य प्रशंसने तदनुमोदनजन्यक्रियादोषसद्भावात् ॥ सू० १०॥
सूत्रम्--जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ ।। सू० ११॥
छाया-यो भिक्षुरन्ययूथिकस्य वा गृहस्थस्य वा पादौ आमार्जयेत् वा प्रमार्जयेत् वा आमार्जयन्तं वा प्रमाजयन्तं वा स्वदते ॥सू० ११॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियस्स' अन्ययूथिकस्य अन्यतीर्थिकस्य तापसादेः 'गारत्थियस्स वा' गृहस्थस्य श्रावकादेर्वा 'पाए' पादौ चरणौ 'आमज्जेज्ज वा' आमार्जयेद् वा एकवारं रजोहरणेन वस्त्रेण वा प्रमार्जन कुर्यात् 'पमज्जेज्ज वा' प्रमार्जयेत अनेकवारम्'आमज्जत वा पमज्जंतं वा
શ્રી નિશીથ સૂત્ર