SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे त्यरूपं वा न करोति, तथा गवेषणमकुर्वन्तं वा श्रमणमनुमोदते स प्रायश्चित्तभागी भवति । तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति अतो ग्लानं श्रमणमवश्यमेव गवेषयेत् न तस्यो - पेक्षा कर्तव्येति भावः । अत्राह भाष्यकारः- २४८ भाष्यम् - सगामे परगामे वा, सोच्चा जाणिय संठियं । गिलाणं नो गवेसेइ, आणाभंगाइ पावइ ॥ छाया - स्वग्रामे परग्रामे वा श्रुत्वा ज्ञात्वा संस्थितम् । ग्लानं नो गवेषयति, आज्ञाभङ्गादि प्राप्नोति ॥ अवचूरिः - यः श्रमणः स्वग्रामे - स्ववसतौ अन्यवसतौ वा परग्रामे यत्र स्वयं स्थितस्ततोऽन्यग्रामे वा संस्थितं ग्लानम् समानसामाचारीकं साधुं श्रुत्वा -- अमुकत्र साधुः रोगातङ्केन दुःखी जात इति लोकेभ्यः श्रुत्वा स्वयमेव ज्ञात्वा वा तं यदि श्रमणः श्रमणी वा नो गवेषयति तस्य रोगातङ्कादिस्थितेर्जिज्ञासां शुश्रूषां च न करोति स श्रमण आज्ञाभङ्गादिकान् दोषान् प्राप्नोति । यो हि श्रमणः स्वग्रामे स्ववसतौ परवसतौ वा परग्रामे वा ग्लानं श्रमणं न गवे - यति न गवेषयन्तं वा अनुमोदते स प्रायश्चिभागी भवति । यतो हि रोगातङ्कादिना दुःखितो ग्लान आसन्नस्थेन साधुना अगवेषितो मनसि परितापं प्राप्नोति तज्जन्यप्रायश्चित्तस्य स भागी भवतीति भावः ॥ सू० ३७॥ सूत्रम् - - जे भिक्खू गिलाणं सोच्चा णच्चा उम्मग्गं वा पडिपहं वा गच्छ गच्छंतं वा साइज्जइ ॥ सू०३८ || छाया यो भिक्षुग्लानं श्रुत्वा ज्ञात्वा उन्मार्ग प्रतिपथं वा गच्छति गच्छन्तं वा स्वदते वा ॥सू० ३८ || चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिलाणं' ग्लानं रोगातङ्काकान्तं 'सोच्चा णच्चा' श्रुत्वा अन्यसकाशात् ज्ञात्वा स्वयमेव वा यदि 'उम्मग्गं वा' उन्मार्ग वा - ग्लानस्थानमार्गादन्यं मार्गे 'पडिपहं वा' प्रतिपथं वा गच्छति यत्र मार्गे ग्लानः स्थितस्ततो विपरीतं पन्थानं यथा स यदि पूर्वदिशायां स्थितो भवेत्तदा स्वयं पश्चिमदिशायां गच्छति रोगातङ्कादिना ग्लायमानो यत्र वर्त्तते तत्र यदि गमिष्यामि तदा तस्य सेवादिकमवश्यकर्तव्यतया समापतेदितिबुद्धया यत्र स विद्यते तस्मिन् मार्गे न गच्छति किन्तु तत्प्रतिकूलमार्गेण गमनं करोति येन ग्लानस्य वैयावृत्यं न कर्तव्यं स्यात्, तथा 'गच्छतं वा साइज्जइ' उन्मार्ग प्रतिपर्थं वा गच्छन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy