SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १० सू० ३६-३८ मुखागतोगारपुनर्मिलन-ग्लानागवेषणादिनि० २४७ ___ छाया- यो भिक्षुः रात्रौ वा विकाले वा सपानः सभोजन उद्गार आगच्छेत् तं विविचन् वा विशोधयन् वा नातिकामति, तम् उद्गीर्य प्रत्यगिलन् रात्रिभोजनप्रतिसेवनाप्राप्तः यस्तं प्रत्ववगिलति प्रत्यवगिलन्तं वा स्वदते ॥ सू०३६ ॥ चूर्णी -- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'राओ वा' रात्रौ वा 'वियाले वा' विकाले वा संध्यासमये सूर्योदयात्प्राग वा तस्य श्रमणस्य 'सपाणे' सपान:-पानं जलं तेन सहितः सपानः 'सभोयणे वा' सभोजनो वा यद् भोजनं भुक्तमोदनादिकं तेन सहितः सभोजनः, उपलक्षणाद् उभयप्रकारो वा 'उग्गाले' उद्गारः 'डकार' इति लोकप्रसिद्धः स आगच्छेत् मुखमध्ये आगच्छेत् 'तं विगिंचमाणे' तं सजलं सभोजनमुद्गारम् विविचन् परित्यजन् मुखाद्-बहिनिकासयन् ‘विसोहेमाणे विशोधयन् मुखस्य स्वच्छतां वस्त्रादिना संपादयन् श्रमणः श्रमणी वा 'नाइक्कामई' नातिकामति नोल्लंधयति तीर्थकरस्याज्ञाम् 'रात्रौ न भोक्तव्यमित्याकारक यदस्ति तस्यातिक्रमणं न करोति सपानसभोजनोद्गारस्य मुखात् निष्काशनात् मुखस्य विशुद्धिकरणाच्चेत्यर्थः 'तं' तम् अथ यदि स श्रमणो रात्रौ विकाले वा समागतं सपानं सभोजनमुद्गारम् 'उग्गिलित्ता पच्चोगिलमाणे' उद्गीर्य्य प्रत्यवगिलन् यदि तं सपानं सभोजनमुद्गारं मुखाद्वहिर्न निःसारयति किन्तु पुनः तदुद्गारस्थं जलं भोजनं च गलादधः कुर्वन् स 'राइभोयणपडिसेवणपत्ते' रात्रिभोजनप्रतिसेवनाप्राप्तः रात्रिभोजनजनितदोषयुक्तो भवति अतो यदि 'जो तं पच्चोगिलइ पच्चोगिलंतं वा साइज्जई' यः कोऽपि श्रमणः श्रमणी वा तदुद्गारस्थं जलं भोजनं प्रत्यवगिलति गलादधः करोति तथा प्रत्यवगिलन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवतीति ॥ स् ३६॥ सूत्रम्-जे भिक्खू गिलाणं सोच्चा णच्चा ण गवसइ ण गवेसंतं वा साइज्जइ ॥ सू०३७॥ छाया-यो भिक्षुः ग्लानं श्रुत्वा ज्ञात्वा न गवेषयति न गवेषयन्त वा स्वदते ॥सू.३७॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' य, कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिलाणं ग्लानम् तत्र यस्य रोगेण आतङ्केन वा शरीरं क्षीणं भवति शरीरस्य क्षयो वा भवति स ग्लानः, तादृशं ग्लानं सरोगातङ्कम् समानसामाचारीकं स्वगच्छीयं वा श्रमणं 'सोच्चा' श्रुत्वा अन्यमुखात् 'णच्चा' ज्ञात्वा स्वयमेव वा ज्ञानविषयोकृत्य 'ण गवेसई' न गवेषयति नान्वेषग्रति तथा 'ण गवसंत वा साइज्जई' न गवेषयन्तं वा स्वदते अनुमोदते । यो भिक्षुः स्वग्रामे स्वोपाश्रये परग्रामे परोपाश्रये वा स्वगच्छीयः परगच्छीयो वा समानसामाचारीकः अमुकः श्रमणो ग्लानो जात इति परेभ्यः श्रुत्वा स्वयमेव वा ज्ञात्वा तस्य गवेषणं तत्स्थितेर्जिज्ञासारूपं तद्वैयावृ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy