________________
مردم
به که همه
२४०
निशीथसूत्रे अवचूरि:-~-यः कश्चित् भिक्षुः उद्घातं लघुमासिकं प्रायश्चित्तसेविनम् अनुद्घातं गुरुमासिकं प्रायश्चित्तं वदेत् प्ररूपयेत् तथा दद्यात् आरोपयेत् । एवमनुद्घातं गुरुमासिकप्रायश्चित्त सेविनम् उद्घातं लघुमासिकं वदेत् प्ररूपयेत् तथा दद्यात् आरोपयेत् । यो हि श्रमण एवं विपरीतं लघुमासिकप्रायश्चित्तस्याधिकारी तं गुरुमासिकं प्रायश्चित्तं वदेत् प्ररूपयेत् दद्यात् आरोपयेच्च, तथा यो गुरुमासिकप्रायश्चित्तस्य अधिकारी तं लघुमासिकं प्रायश्चित्तं प्ररूपयेद् आरोपयेद्वा स श्रमणः दोषान् आज्ञाभङ्गानवस्थामिथ्यात्वविराधनारूपान् प्राप्नुयात् । तथाहि एवं वैपरीत्येन प्ररूपणे च स तीर्थकराणामाज्ञाभङ्गं करोति, तथा अन्यथाप्ररूपणायामारोपणायां च कृतायामनवस्थापि स्यात् , तथा विपरीतप्ररूपणायां कृतायां मिथ्यात्वमपि स्यात् यथा एतत् , तथा अन्यदपि सर्वमसत्यमिति । एवमल्पप्रायश्चित्तस्य कथने दाने च चारित्रस्य शुद्धिन स्यात् , अधिके च प्रायश्चित्ते दत्ते साधोः पीडा स्यात् एवं द्विविधा विराधनाऽपि स्यात् । यस्मात् एते दोषास्तस्मात् कारणात् अविपरीतमेव वदेत् दद्यादपि, न तु विपरीतं प्रायश्चित्तं वदेतृ दद्याद्वा । एवं योऽप्रायश्चित्ते प्रायश्चित्तं ददाति, तथा अल्पाऽपराधेऽधिकं प्रायश्चित्तं ददाति, अधिकापराधे चाल्पं प्रायश्चित्तं ददाति स श्रुतचारित्रधर्मस्याशातनां करोति, तथा सम्यग्ज्ञानदर्शनचारित्रतपोलक्षणमोक्षमार्गस्य विराधनां करोति । तत्र धर्मो द्विप्रकारकः श्रुतलक्षणः चारित्रलक्षणश्च, तत्र अधिकं प्रायश्चित्तं प्ररूपयन् ददन् श्रुतधर्म विराधयति, न्यूनं प्रायश्चित्तं च वदन् आरोपयंश्च चारित्रलक्षणं धर्म विराधयति । ज्ञानदर्शनचारित्रतपोलक्षणः चतुःष्प्रकारको मोक्षमार्गः विपरीतरूपेण प्रायश्चित्तं ददता आरोपयता विराधितः कृतो भवेत् । अत्राय विवेकः-आचार्यो यदि स्वपरंपरोपदेशेन लघुकं गुरुकं, गुरुकं वा लघुकं प्रायश्चित्तं वदति ददाति वा तदा स शुद्धः, अन्यथा तु अशुद्धः सन् प्रायश्चिभागी भवति । अथवा-आचार्यों बहुश्रुतत्वेन तत्पार्श्वे यः कश्चित् शिष्यश्चतुर्थादितपश्चरणेऽपि धृतिसंहननबलिको भवेत् स लघुप्रायश्चितदाने वदेत्-'किं ममैतेनाऽल्पेन प्रायश्चित्तेन ?' तदाऽन्यदपि उद्घातिकेऽनुद्घातिकमपि दद्यात् , न तत्र दोषः । यदि प्रायश्चित्ताधिकारी शिष्य उभयतः घृत्या संहनेन च दुर्बलो भवेत् तं तादृशं धृतिसंहननदुर्बलं ज्ञात्वा गुरुप्रायश्चितेऽपि लघुप्रायश्चित्तं दद्यात् येन स वोढुं शक्नोति तादृशं लघुप्रायश्चित्तमपि दद्यात् । तथा धृतिसंहननयोमध्ये एकतरेण बलिको भवेत् तदा तस्मै तदनुरूपं प्रायश्चित्तं दद्यात् । तथा य आचार्यादिग्लानादिवैयावृत्त्यकरणे अभ्युद्यतो भवेत् तस्मै सानुग्रहं प्रायश्चित्तं दद्यात् , उक्तञ्च--'वे यावच्चकराणं होइ अणुग्घाएवि उग्घाय' वैयावृत्यकरेभ्यो भवति अनुदातेऽपि उद्घातम् , इति वचनात् । यस्मात् प्रायश्चित्तस्य विपर्ययकरणे पूर्वोक्ता एते दोषा भवन्ति तस्मात् कारणात् श्रमणः लघुप्रायश्चित्तस्थाने गुरुकं प्रायश्चित्तं तथा गुरुप्रायश्चित्तस्थाने च लघुकं प्रायश्चित्तं न वदैत् न दद्यात् , न वा वदन्तं ददतं वा अनुमोदयेत् ॥सू० १९॥
શ્રી નિશીથ સૂત્ર