________________
चूर्णिभाष्यावद्भिः उ० १० सू०१६-१९ उद्घातानुद्घातोविपर्यासवादतत्कथननि० २३९
तया पूर्व प्रतिपन्नः कथं भवान् एनं शिष्यमकरोत् यदा मालवे विहरन्नासीत्तदा मया एषः प्रतिबोधितः तस्मात् ममायं भावी शिष्य इति । एवं क्रमेणोभयोः कलहो जायते अयं स्वपक्षे साधिकरणः । एवंप्रकारेणाचित्ते वस्त्रपात्रकम्बलाद्युपकरणविषयेऽपि अधिकरणं समुत्पद्यते । एवं सचित्ताचित्तमिश्रवस्त्रसहितशिष्यादौ कलहो जायते । एवं कोऽपि ? स्वगच्छगतः साधुः स्वाध्यायं करोति तदा अपर आगत्य कथयति-कथं त्वं न्यूनमधिकं वा स्वाध्यायं करोषि उत्सूत्रं वा प्ररूपयसि ? इत्यादिकमेणाधिकरणं समुत्पद्यते, अयमपि स्वपक्षगतः साधिकरण इति । एवं परगच्छगतसाधिकरणविषयेऽपि शिष्यविषये वखपात्रादिविषये स्वाध्यायादिविषये च ज्ञातव्यम् । अयमेकैको गच्छगतो गच्छनिर्गतो वा साधिकरणो द्विविधो भवति तद्विषयेऽप्यधिकरणत्वं स्वयमूहनीयम् । एवं कोऽपि साधुरधिकरणमुत्पादितवान् पुनश्च तदधिकरणं न व्यवशामितं न क्षामितं किन्तु अनुपशाम्य स यद्यागच्छेत्तं तत्रत्यः साधुर्यदि अव्युपशामितकलहम् अकृतप्रायश्चित्तं च स्वसमीपे स्थापयति तथा तेन सह आहारं करोति कारयति कुर्वन्तं वां अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १५॥
सूत्रम्-जे भिक्खू उग्घाइयं अणुग्घाइयं वयइ वयंत वा साइज्जइ॥ छाया-यो भिक्षुरुद्घातिकमनुद्घातिकं वदति वदन्तं वा स्वदते ॥सू० १६॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'उग्याइयं' उद्घातिकं-लघुप्रायश्चित्तम् 'अणुग्याइयं' अनुद्घातिकं गुरुप्रायश्चित्तम् 'वयइ' वदतिप्ररूपयति, यस्य कस्यचित् श्रमणस्य लघुप्रायश्चित्तमायाति तस्मै गुरुकं प्रायश्चित्तं वदति प्ररूपयति, एवं लघुक प्रायश्चित्तवन्तं गुरुक प्रायश्चित्तं वदति प्ररूपयति, तथा 'वयंत वा साइज्जई' वदन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवतीति ।। सू० १६॥ एवम् 'अणुग्याइयं उग्याइयं वयई' इति सूत्रम् । गुरुप्रायश्चित्तयोग्याय श्रमणाय लघुकं प्रायश्चित्तं प्ररूपयतीति ॥सू० १७॥ अनेनैव प्रकारेण 'उग्याइयं अणुग्याइयं देइ' लघुप्रायश्चित्तयोग्याय श्रमणाय गुरुप्रायश्चित्तं ददाति-- आरोपयतीति ॥सू० १८॥ तथा 'अणुग्घाइयं उग्याइयं देइ' गुरुप्रायश्चित्तयोग्याय लघुप्रायश्चित्तं ददाति-आरोपयतीति । एवं सप्तदशसूत्रात् एकोनविशतिसूत्रपर्यन्तानि त्रीणि सूत्राणि षोडशसूत्रवद् व्याख्येयानीति ॥ सू० १९॥
अत्राह भाष्यकारः-- भाष्यम्- उग्घायमणुग्घायं, चाणुग्घायं पुणो य उग्घायं ।
एवं जो विपरीयं, वए दए पावए दोसे ॥ छाया-उद्घातमनुधातं चातुद्घातं पुनश्च उद्घातम् ।
एवं यो विप वदेतीतं दद्यात् प्राप्नुयात् दोषान् ।।
શ્રી નિશીથ સૂત્ર