________________
२२४
निशीथसूत्रे ओदनाचन्न षड्जीवनिकायोपमर्दनपूर्वकं निष्पादितम् , दाता च विचिन्तयति-इदमोदनाद्यन्नं कस्मैचित् साधवे देयं, तेन दानेन महान् पुण्योदयी भवेत् , इति विचिन्त्य तेनाशनादिना साधु निमन्त्रयति, साधुश्च तादृशमोदनाद्याहारं गृह्णाति तदा गृह्णतः साधोराज्ञाभङ्गादिदोषा अतिक्रमादयो दोषाश्च, ददतश्च दातुः सदोषाहारदानप्रभवा दोषाश्च समापतन्ति । दातारः श्रावकास्त्रिविधा भवन्ति नालबद्धकाः, मध्यस्थाः, भद्रकाश्च, तत्र कोपि भद्रक आधाकर्मकमन्ने सम्पाद्य उपाश्रये समागत्य साधवे कथयति--मद्गृहे आगत्याहारं गृहाण, तद्ग्रहणाय साधुः सज्जीभूतो भवतीति अतिक्रमः, श्रावकेण सह गच्छतीति व्यतिक्रमः, श्रावकगृहात् पात्रे गृहीत्वा चाहारमानीय मुखे प्रक्षिपति चर्वति इत्यतिचारः, तदनु गलविलादधोऽवतारयति तदा तस्यानाचारो भवति, एवं दातृविषयेऽपि आधाकर्माहारादिसंपादनेऽतिक्रमः, निमन्त्रणे व्यतिक्रमः, साधोहानयनेऽतिचारः, दाने चानाचार इति । तत् आधाकमकं त्रिप्रकारकं भवति--आहारे उपकरणे वसतौ च, आधाकर्मकाहारश्च चतुर्विधो भवति -अशनपानखाद्यस्वाद्यभेदात्, उपधिदिविधः वस्त्रपात्रभेदात् , तत्र वस्त्रे आधाकर्मकं पञ्चप्रकारकं भवति जाङ्गमिकमाङ्गिकादिभेदात् , तत्र जाममिकं-जङ्गमप्राणिरोमनिष्पन्न ऊर्णामयं वस्त्रम् १, भाङ्गिकम् अतस्यादिसूत्रनिष्पादितवस्त्रम् २, शाणकं शणनिष्पादितवस्त्रम् ३, पोतकं-कार्पासिकवस्त्रम् ४, तिरीडपट्टकम्-अर्कतूलादिनिष्पादितवस्त्रम् ५ । तस्मिन् तादृशे पञ्चविधे वस्त्रे आधाकर्मकम् । पात्रे चाधाकर्मकं त्रिविधम्-अलाबुकदारुकमृत्तिकापात्रभेदात् । वसत्याधाकर्मकं द्विविध मूलगुणे आधाकर्म, उत्तरगुणे आधाकर्म च, तत्र श्रमणार्थ गृहादिनिर्माणं मूलगुणे आधाकर्म । निर्मितस्यैव गृहादेः छादनोपलेपनादिकमुत्तरगुणे आधाकर्म इति ।
अत्र-आधाकर्मग्रहणाद् अग्रस्था औद्दे शिकादयः सर्वेऽषि उद्गमदोषाः संग्राह्याः, तत्परिभोगे साधुः प्रायश्चित्तभागी भवति । अत्रोदाहरणं यथा
पूर्वस्मिन् काले एकः समन्तभद्राचार्यः शिष्यपरिवारपरिवृतो विहरति स्म । स ग्रामानुग्राम विहरन् कस्मिंश्चिन्नगरे चातुर्मास्यं कर्तृकामो मार्गस्थिते एकस्मिन् लघुग्रामे गन्तुं प्रस्थितः, तत्रतस्तन्नगरमतिदूरं वत्तंते । तन्नगरश्रावकाः, आचार्योऽत्रागमनार्थ प्रस्थित इति ज्ञात्वा चिन्तयन्ति. यद्-आचार्यश्चातुर्मासावधि काले अत्रागन्तुमसमर्थो नात्रागमिष्यातीति कृत्वा ते श्रावका आचार्यागमनात् पूर्वमेव मध्यमार्गस्थिते तस्मिन् लघुग्रामे समागत्य निवासं कृतवन्तः । प्रामानुग्रामपरिपाट्या विहरन् स आचार्यस्तस्मिन् लघुग्रामे संप्राप्तः । तत्रतो विहर्त. कामाय तस्मै ते सर्वे निवेदितवन्तः-भो आचार्याः ! यस्मिन्नगरे भवन्ती गन्तुकामास्तन्न गरमतिदूरं वरीवत्तिं चातुर्मासागमने चाऽल्पीयांस एव दिवसा इति भवद्भिरत्रैव चातुर्मास्यं कर्त्तव्यम् । इति तेषां प्रार्थनां स्वीकृत्याचार्यश्चातुर्मासार्थ तत्रैव स्थितः । पूर्णे चातुर्मासेऽन्यत्र विहृतवान् । ततो जनपदविहारं विहरन् द्वादशवर्षानन्तरं पुनस्तत्रैव लघुग्रामे संप्राप्तः, पश्यति तं ग्रामं समृद्धजनरहितं
શ્રી નિશીથ સૂત્ર