SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०१० सू०५-६ आधा कर्माहारपरिभोगनिषेधः - २२७ छाया -यो भिक्षुरनन्तकायसंयुक्तमाहारम् आहरति आहरन्तं वा स्वदते ॥ सू० ५ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'अनंतकाय संजुत्तं' अनन्तकायसंयुक्तम्, तत्र अनन्तकाय: पनकरौवालादिः तेन संयुक्तं संमिलितम् 'आहारं ' आहारम् अशनादिचतुर्विधाहारम् 'आहारेइ' आहरति - पनकरौवालादिमिश्रितमाहारमुपभुङते ' आहारेंत वा साइज्जइ' आहरन्तं वा स्वदते । यो हि श्रमणः श्रमणी वा अनन्तकाय संयुक्तमाहारं भुङ्क्ते तमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ५ ॥ सूत्रम् -- जे भिक्खू आहाकम्मं भुंजइ भुजंत वा साइज्जइ ॥ सू०६ ॥ छाया- यो भिक्षुराधाकर्म भुङ्क्ते भुञ्जानं वा स्वदते ॥सू० ६ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'आहाकम्मं' आधाकर्म आधानम् आधा चेतसि साधून् आधाय मनसि निधाय तन्निमित्तं षड्जीवनिकायोपमर्द नादिना कर्म-भक्तादिपाकक्रिया क्रियते तदयोगाद् भक्ताद्यपि आधाकर्म, तादृशमाहारं 'भुंजइ' भुङ्क्ते आहरति आधाकर्माहारजातस्य भोजनं करोति कारयति वा तथा 'भुजत वा साइज्जइ' भुञ्जानं वा स्वदते । यो हि श्रमण आधा कर्माहारमुपभुङ्क्ते तमनुमोदते स प्रायश्चित्तभागी भवति । 1 अत्राह भाष्यकारः- भाष्यम् – संजयं च मणे किच्चा, निष्फाए ओयणाइयं । छक्कायजीवमद्देणं, आहाकम्मं मुणेहि तं ॥१॥ 1 तं च गिण्हइ जो भिक्खू असणार चउग्विहं । दायारं नियमप्पाणं, दोसजुत्तं करेइ सो || २ || छाया - संयतं च मनसि कृत्वा निष्पादयेत् ओदनादिकम् । षटुकाय जीवमर्देन आधाकर्म जानीहि तत् ॥१॥ तच्च गृद्धाति यो भिक्षुः अशनादि चतुर्विधम् । दातारं निजमात्मानं दोषयुक्तं करोति सः ॥२॥ अवचूरिः - 'संजय' इत्यादि । 'संजय' संयतं साधुं च मनसि कृत्वा कमपि साधुमुद्दिश्य यत् ओदनादिकं निष्पादयेत्, तद् ओदनादिकं षट्कायजीवमर्देन षट्कायजीवविराधनया आधाकर्म जानीहि ॥१॥ तच्च तादृशमशनादि चतुर्विधमाहारं यः कोऽपि भिक्षुर्गृह्णाति स दातारम् आधाकर्माहारदायकं, तथा निजमात्मानं च दोषयुक्तं करोति । तथाहि - कस्यापि श्रावकादेर्गृहे कमपि साधुमुद्दिश्य શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy