________________
...निशीथसूत्रे ___ अवचूरिः-'इतथि' इत्यादि । ये केचित् श्रमणाः भिक्षुकाः राज्ञः प्रसंगात् क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानाम् सम्बन्धिनी त्रिय राजवल्लभां, कीदृशीम् ? सर्वालङ्कारविभूषितां स्वच्छसुन्दरकमनीयवस्त्राभूषणसज्जितां पश्यन्ति चक्षुर्जनितज्ञानविषयतां कुर्वन्ति ते श्रमणाः अनेकदोषान् विविधदोषान् आज्ञाभङ्गादिकान् लभन्ते प्राप्नुवन्ति अत्रैतद्विषये न कोऽपि संशयः, अपि तु तेषां दोषा भवन्त्येवेति, तथाहि-यस्तु भुक्तभोगी पश्चात् श्रमणः संजातः स तादृशी स्त्रियं दृष्ट्वा विचिन्तयतिममापि एतादृशी वल्लभा आसीत् , एवं विचारयतस्तस्य कालक्रमेण तत्समये वा उदीरितकामव्यथया जर्जरितशरीरः संयमात् परिभ्रष्टो भवति। यस्तु अभुक्तभोगी स चिन्तयति-एतादृक्स्त्रीसेवने कीदृश आनन्दानुभवो जायेत ? इत्यादिविचारेण विह्वलीभूतः स तादृशी स्त्रियं दृष्ट्वा संयमात् पतितो भवति, कामविह्वलशरीरो भवन् शासनस्य निन्दको वा भवेत्-किमनेन साध्वाचारेण ! गार्हस्थमेव श्रेयस्करमित्यादि वदेत् , तदप्राप्ती कदाचित् आत्मघातमपि करोति, तेन शासनस्य लघुता भवति । यस्मादेते दोषा भवन्ति तस्मात्कारणात् श्रमणः राजादीनामुपलक्षणात्साधारणजनानामपि स्त्रियं द्रष्टुं विचारमपि न कुर्यात्, न वाऽन्यान् श्रमणान् स्त्रीदर्शनविषयकविचारमपि कारयेत् , न वा विचारं कुर्वन्तमन्यमनुमोदयेदिति ॥सू० ९॥
सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं मंसखायाणं वा मच्छखायाणं वा छविखायाणं वा बहिया णिग्गयाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गहेंतं वा साइ ज्जइ ॥ सू० १०॥
छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धामिषिक्तानां मांसखादकानां वा मत्स्यखादकानां वा छविखादकानां वा अहिनिर्गतानाम् अशनं वा पानं वा खाद्य वा स्वाद्य वा प्रतिगृह्णाति प्रतिगृह्यन्तं वा स्वदते ॥सू० १०॥
चूर्णी-"जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादिराजादीनां 'मंसखायाणं वा' मांसखादकानां वा-मांसभक्षकाणां मांसभक्षणनिमित्तं मृगयां कत बहिनिर्गतानामिति सर्वत्र सम्बन्धः कार्यः, तेन मांसार्थ वने मृगयाकरणाय ग्रामाद् बहिर्निर्गतानां मांसखादनार्थमित्यर्थो बोध्यः, एवं 'मच्छखायाणं वा' मत्स्यखादकानां वा-मत्स्यभक्षकाणां वा-मत्स्यग्रहणनिमित्तं नदीहदसमुद्रादौ गमनार्थ बहिर्निर्गतानां वा 'छविखायगाणं वा' छविखादकानां वा, छविः चपलमुद्गादिफलिस्तासाम्-चपलमुद्गादिफलिभक्षणार्थ क्षेत्रे गमनार्थ वा 'बहिया णिग्गयाणं वा' तत्तद्वस्तुभक्षणार्थ बहिर्निर्गतानां वा तत्सम्बन्धि 'असणं वा' इत्यादि अशनादिचतुर्विधमाहारं 'पडिग्गाहेइ' प्रतिगृह्णाति, अयं भावः-राजादयो मांसादिभक्षणेच्छया वनादिप्रदेशेषु समागताः
શ્રી નિશીથ સૂત્ર