________________
चूर्णिभाष्यावचूरिः उ०९ सू०९-१० राजादिस्त्रोविलोकन-मांसादिखादकाहार-निषेधः २०९ मपि न कुर्यात् । अथवा यदि स साधुर्गमनागमनसमये राजानं द्रष्टुं यास्यति तदा तत्रैकत्रितजनसमूहे काचिद् विभूषिताङ्गी वनितां दृष्ट्वा मोहवशो भविष्यति, प्रतिनिवृत्तो मनसा स्त्रियं ध्यायन तामलभमानश्च अन्यामेव काञ्चित् वनितां स्वतीर्थपरतीर्थसम्बन्धिनी कामयेत् , संयतीमेव वा काञ्चित कामयेत् , तदभावे हस्तकर्मादिकमेव कुर्यात् , एवं रीत्याऽन्ततः सर्वथा स संयमात् परिभ्रष्टो भविष्यति । अथवा स यदि राजपुत्रः सन् प्रवजितोऽस्ति तदा स यदि तादृशं समृद्धिसम्पन्नं राजानं दृष्ट्वा स चिन्तयति-मया एतादृशराजलक्ष्म्या उपभोगः कर्तव्य इति विचार्य कदाचित् संयम परित्यज्य स्वकुलं प्रतिगच्छेत् । यस्मात् राजादीनां दर्शने एते पूर्वोक्ता दोषा भवन्ति तस्मात्कारणात् संयतः संयती वा राजादीनां गमनागमनसमये तद्दर्शनस्य विचारं कथमपि न कुर्यात् , न वा विचारं कारयेत् , न वा तादृशं विचारं कुर्वन्तं कमपि श्रमणान्तरमनुमोदयेत् , किन्तु निवृत्तदर्शनकुतूहलो यथाशास्त्रं यथातीर्थकरादिष्टं धर्मध्यानं कुर्वन् संयमाराधनसंलग्नचित्त एव तिष्ठेत् इति भावः। सू०८॥
सूत्रम्-जे भिक्खू रण्णा खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इत्थीओ सव्वालंकारविभूसियाओ पयमवि चक्खुदंसवणडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥ सू० ९॥
छाया- यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां स्त्रियः सर्वालंकारविभूषिताः पदमपि चक्षुदर्शनप्रतिज्ञया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥९॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादि राजादीनां 'इत्थीओ' स्त्रियः 'सव्वालंकारविभूसियाओ' सर्वालङ्कारविभूषिताः अनेकप्रकारकराजकुलोचितवस्त्रभूषणादिभिः सुसज्जिताः स्त्रियः 'चक्खुदंसणवडियाए' चक्षुदर्शनप्रतिज्ञया-चक्षुषा दर्शनवाछया द्रक्ष्यामि राजवनितामितीच्छया ‘पयमवि' पदमपि एकपदन्यासमपि कर्तृ 'अमिसंधारेइ' अभिसन्धारयति मनसा चिन्तयति तथा 'अभिसंधारेतं वा साइज्जइ' अभिसन्धारयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति । अत्राह भाष्यकार:भाष्यम्--इत्थि पासंति जे रण्णो, सव्वालंकारभूसियं ।
लभंते नेगदोसे ते, समणा नेत्थ संसओ ॥ छाया-स्त्रियं पश्यन्ति ये राज्ञः सर्वालङ्कारभूषिताम् ।
लभन्तेऽनेकदोषान् ते श्रमणा नात्र संशयः ।।
શ્રી નિશીથ સૂત્ર