________________
२०६
निशीथसूत्रे सम्पादितं तादृशमोदनादिकं कान्तारभक्तम् ८, 'दुभिक्खभत्तं वा ९' दुर्भिक्षभक्तं वा दुर्भिक्षसमये ये अन्नादिकं न प्राप्नुवन्ति तदर्थ सम्पादितं भक्तं वा दुर्मिक्षभक्तम् ९, दुक्कालभत्तं वा' दुष्कालभक्तं वा-दुष्कालपीडितेभ्यः संपादितं भक्तम् । तत्र एकवार्षिकान्नाद्यनुत्पत्तिरूपः समयो दुर्भिक्षम्, अनेकवार्षिकान्नाद्यनुत्पत्तिरूपः समयो दुष्कालशब्देन-कथ्यते, इत्येवमनयोभेदः १०, 'दमगमत्तं वा ११' द्रमकभक्तं वा, तत्र द्रमको दरिद्रो भिक्षुकः, तदर्थ सम्पादितं भक्तं वा ११, 'गिलाणभत्तं वा १२' ग्लानभक्तं वा, तत्र ग्लानो ज्वरादिदीर्घरोगपीडितः, तदर्थ सम्पादितं भक्तं ग्लानभक्तम् १२, 'बद्दलियाभत्तं वा १३' बर्दलिकाभक्तं वा, अतिवृष्टिपीडितजनार्थ सम्पादितमोदनादिकं बईलिकाभक्तम् १३, ‘पाहुणभत्तं वा १४' प्राघूर्णकभक्तं वा प्राघूर्णकाथै सम्पादितं प्राघूर्णकभक्तम् १४, एतादृशचतुर्दशप्रकारकं राजभवने सम्पादितं भक्तं 'पडिग्गाहेइ' प्रतिगृह्णाति स्वयं स्वीकरोति, अन्यं श्रमणं स्वीकारयति वा, तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥सू० ६)
सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाइं छद्दोसपयाइं अजाणिय अपुच्छिय अगवेसिय परं चउरायपंचरायाओ गाहावइकुलं पिंडवायपडियाए निक्खमइ वा पविसइ वा निक्खमंतं वा पविसंतं वा साइज्जइ तंजहा-कोट्ठागारसालाणि वा भंडागारसालाणि वा पाणसालाणि वा खीरसालाणि वा गंजसालाणि वा महाणससालाणि वा सू० ७॥
__छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानामिमानि षड् दोषपदानि अज्ञात्वा अपृष्ट्वा अगवेषयित्वा परं चतूरात्रपञ्चरात्रात् गाथापतिकुलं पिण्डपातप्रतिज्ञया निष्कामति वा प्रविशति वा निकामन्तं वा प्रविशन्तं वा स्वदते, तद्यथाकोष्ठागारशालानि वा भण्डागारशालानि वा पानशालानि वा क्षीरशालानि वा गञ्ज. शालानि वा महानसशालानि वा ॥सू० ७॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादि राजादीनां 'इमाई' इमानि वक्ष्यमाणानि 'छदोसपयाई' षड् दोषपदानि दोषस्थानानि यत्र निष्क्रमणेन प्रवेशेन च श्रमणः प्रायश्चित्तभाग् भवति, तानि दोषपदानि तक्ष्यमाणानि कोष्ठागारादीनि 'अजाणिय' अज्ञात्वा, तत्र तानि वर्तन्ते, इति स्वबुद्धया सम्यग् ज्ञानमन्तरेणेत्यर्थः अपुच्छिय' अपृष्ट्वा पूर्वदृष्टेषु परेभ्यः पृच्छादिकमकृत्वा 'अगवेसिय' अगवेषयित्वा, अदृष्टेसु गवेषणं यथा-कानि वाऽऽयतनानि ?, कुतोमुखानि वा ? कस्मिन् वा स्थाने तानि ? किंचिह्नानि वा तानि ? इत्यादिरूपं गवेषणमकृत्वा
શ્રી નિશીથ સૂત્ર