________________
चूर्णिभा० उ०८ सू०१५ समवाय पिण्ड निकरेन्द्र महादिषु राजादीनां भिक्षाग्रहणनिषेधः १९७ आगर महेसु वा अण्णयरेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गार्हतं वा साइज्जइ ॥ १५॥
छाया - यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्द्धाभिषिक्तानां समवायेषु वा पिण्डनिरेषु वा इन्द्रमहेषु वा स्कन्दमहेषु वा रुद्रमहेषु वा मुकुन्दमहेषु वा भूतमहेषु वा यक्ष महेषु वा नागमहेषु वा स्तूपमहेषु वा चैत्यमहेषु वा वृक्षमहेषु वा गिरिमहेषु वा दरोमहेषु वा अगडमहेषु वा तडागमहेषु वा इदमहेषु वा नदीमहेषु वा सरोमहेषु वा सागरमहेषु वा आकरमहेषु वा अन्यतरेषु वा तथाप्रकारेषु विरूपरूपेषु महामहेषु अशनं वा पानं वा खाद्यं वा खाद्यं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० १५||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' राज्ञः राजसिंहासने स्थितस्य 'खत्तियाणं' क्षत्रियाणां क्षत्रियत्वजातिविशिष्टानां ग्रामपतीनाम् 'मुदियाणं' मुदितानां तत्र मुदिता जात्या शुद्धाः मातापित्रादिना शुद्धवंशींया इत्यर्थः तेषाम् 'मुद्धाभिसि - ताणं' मूर्धाभिषिक्तानाम्, तत्र पितृपितामहादिक्रमेण राज्येऽभिषिक्ता मूर्धाभिषिक्ताः युवराजपदेऽभिषिक्ता वा तेषां मूर्धाभिषिक्तानाम्, अत्रोपलक्षणात - अमात्य - पुरोहिते -श्वर-तलवर - माडम्बिक - कौटुम्बिके-म्य-श्रेष्ठि-सेनापत्या - दीनामपि ग्रहणं कर्त्तव्यम् । राजाद्यतिरिक्तानाममात्यादीनामपि वक्ष्यमाणेषु समवायादिषु इन्द्रमहादिषु च साधुरशनादिकं न गृह्णीयादिति सम्बन्धः । तदेव दर्शयति- 'समवासु वा' इत्यादि । 'समवायसु वा' समवायेषु वा समानवयस्यसमुदायेषु, यत्र समवयस्का मिलित्वा गोष्ठोभक्तं कुर्वन्ति तादृशेषु समवायेषु 'पिंड नियरेसु वा' पिण्डनिकरेषु वा, यत्र सपिण्डाः (एकमूलपुरुषाः ) कुटुम्बिनो मिलित्वा पितृपिण्डदानं कुर्वन्ति तत्र, अथवा - पण्डो नाम दायभक्तं यत्र दायादा मिलित्वा भुञ्जते तस्य निकरेषु दायभक्तसमूहेषु वा, 'इंदमहेसु वा इन्द्रमहेषु वा तत्र इन्द्रो देवराजस्तस्य मह उत्सवः, तथा चेन्द्रं देवराजमुद्दिश्य क्रियमाणेषूत्सवेषु कार्तिकशुल्क प्रतिपदि देवराजोद्देशेन महानुत्सवो भवतीति लोकाचारः, तादृशोत्सवेषु वा 'खंदमहेसु वा' स्कन्दमहेषु वा - स्कन्दः कार्तिकेयो महादेवपुत्रो देवविशेषः तदुद्देशेन क्रियमाणेषूत्सवेषु वा 'रुद्दमहेसु वा' रुद्रमहेषु वा - रुद्रमहोत्सवेषु वा, तत्र रुद्रः शिवस्तमुद्दिश्य क्रियमाणेषूत्सवेषु 'मुकुंदमहेसु वा' मुकुन्द महेषु वा, तत्र मुकुन्दः कृष्णः तस्योत्सवा मुकुन्दमहाः कृष्णजन्माष्टभ्याद्युत्सवाः, तादृशमहोत्सवेषु 'भूतमहेसु वा' भूतमहेषु वा तत्र भूतानां व्यन्तरदेवविशेषाणां महा उत्सवा भूतमहाः, यादृशोत्सवेषु भूताः पूज्यन्ते तादृशमहोत्सवेषु 'जक्खमहेषु वा' यक्षमहेषु वा, तत्र यक्षो व्यन्तरदेवविशेष एव तस्य महा उत्सवविशेषाः, यत्र महोत्सवे यक्षाः पूज्यन्ते तादृशमहोत्सवेषु 'णागमसु वा' नागमहेषु वा, तत्र नागाः सर्पाः येषु महोत्सवेषु नागाः पूज्यन्ते नागपंचमीतिलोकप्रसिद्धादिमहोत्सवेषु ‘धूभमहेसु वा' स्तूपमहेषु वा स्तूपानां महोत्सवाः, स्तूपः- स्मृतिस्तम्भः,
શ્રી નિશીથ સૂત્ર