SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०८ सू० १२-१४ रात्रौ ज्ञातकादीनां स्वोपाश्रये संवासननिषेधः १९५ रात्र्य? यावत् 'कसिणं वा राई' कृत्स्ना संपूर्णाम् यामचतुष्टयरूपां सम्पूर्णा वा रात्रिं यावत् 'संवसावेई' संवासयति उपाश्रये वासं स्थिति कारयति, 'अत्र वसतौ संवासं कुरु हे आर्य ! इत्येवं वदति 'संवसावेंतं वा साइज्जई' संवासयन्तं वा स्वदते, यः खलु स्वजनमस्वजनं वा श्रावकमश्रावकं वा स्वेन सा वसतिमध्ये अर्धा वा रात्रि सम्पूर्णा वा रात्रिं यावत् संवासयति तथा संबासयन्तमन्यमनुमोदते स प्रायश्चित्तभागी भवति, उपाश्रये संवसन् स रात्रिभोजनं करोति, सचित्तजलं वा पिबति, अन्यं वा आरम्भसमारम्भं करोति, तस्मात्कारणात् ज्ञातकादिकमुपाश्रये न संवा. सयेत् तस्य संवासने साधोराज्ञाभङ्गादिकाश्चापि दोषाः समापतन्ति ॥ सू० १२॥ अत्राह भाष्यकारःभाष्यम्-णायगमणायगं वा, सावगं वा तहेयरं । वसहीए वासए राओ, आणाभंगाइ पावइ ॥ छाया-ज्ञातकमज्ञातक वा श्रावकं वा तथेतरम् । वसतौ वासयेद् रात्रा, आज्ञाभङ्गादि प्राप्नुयात् ॥ अवचूरिः- यो भिक्षुः अर्द्धरात्रि वा संपूर्ण रात्रि वा वसतौ उपाश्रयस्य मध्ये ज्ञातकं स्वकी यज्ञातिजनं परिचितं वा अज्ञातकं-ज्ञातिभिन्नमपरिचितं वा, तथा श्रावक-जिनधर्मोपासकं गृहस्थं वा अनुपासकम् अन्यतैर्थिकं वा स्वोपाश्रये यत्र स्वयं तिष्ठति तत्र वासयति । यदि कश्चित् श्रमणस्य स्वजनोऽस्वजनः परिचितोऽपरिचितः श्रावकोऽश्रावको वा रात्रौ वस्तुं समुपस्थितो भवेत् तं श्रमणो रात्रौ तत्र वासयेत् वासयन्तं वाऽनुमोदते स आज्ञाभङ्गादिकान् दोषान् प्राप्नुयात् ।। अथ कारणेऽपवादमाह भाष्यकारःभाष्यम् - दिक्ख? वा दयटुं वा पोसहहं समागयं । वासेइ रयणि तस्स, न दोसो किं तु संवरो ॥१॥ छाया - दीक्षार्थ वा दयार्थ वा पौषधार्थ वा समागतम् । वासयति रजनी तस्य न दोषः किन्तु संवरः ॥११॥ अवचूरिः- यः कश्चित् श्रमणः दीक्षार्थं पौषधार्थ पौषधव्रताचरणार्थ उपलक्षणात् ग्लानादिनिमित्तं समागतं वैद्यं श्रावकं वा यदि रात्रौ स्ववसतौ वासयति तदा तस्य रात्रौ वसतिवासदानेऽपि न कश्चिदोषः प्रत्युत संवर एव भवति, यतः स संवासः सकलसावधकर्मपरित्यागगर्भितो भवति तादृशवासस्य संवरसंपादकत्वात् , तस्मात् तादृशस्य वसतिवासो दातव्य एवेति भावः । तमपि स्वसमीपात् षड्हस्तं दूरे संवासयेत् येम गृहस्थस्य शरीरवस्त्राादना स्वस्य शरीरवस्त्रादेः संधट्टनं न स्यात् । यदि षड्हस्ताभ्यन्तरे तं संवासयति तदा स साधुः प्रायश्चित्तभागी भवति । શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy