SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १९४ निशीथसूत्रे छाया-यो भिक्षुः स्वगणीयया परगणीयया निर्ग्रन्थ्या सार्द्ध ग्रामानुग्राम द्रवन् पुरतो गच्छन् पृष्ठतः रीयमाणः (गच्छन्) अपहतमनःसंकल्पः चिन्ताशोकसागरसंप्रविष्टः करतलप्रन्यस्तमुखः आर्तध्यानोपगतो विहारं वा करोति, स्वाध्यायं वा करोति, अशनं वा पाने वा खाद्य वा स्वाद्य वा आहरति, उच्चारं वा प्रश्रवणं वा परिष्ठापयति, अन्यतरां वा अनार्या निष्ठुरां मैथुनोमश्रमणप्रायोग्यां कथां कथयति कथयन्तं वा स्वदते ॥११॥ चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सगणिच्चाए वा' स्वगणीयया-स्वगणसम्बन्धिन्या 'परगणिच्चियाए वा' परगणीय या-परगच्छसम्बन्धिन्या वा 'णिग्गंथीए सद्धि' निर्ग्रन्थ्या श्रमण्या सार्द्धम् 'गामाणुगाम दुइज्जमाणे ग्रामानुग्रामं द्रवन् एकस्मात् ग्रामात् ग्रामान्तरं प्रति गच्छन् 'पुरओ गच्छमाणे पुरतो गच्छन्-पुरतो श्रमण्या अग्रे गच्छन् 'पिट्टओ रीयमाणे' पृष्ठतो रीयमाणः -पृष्ठतश्चलन् तद्वियोगात् 'ओहयमणसंकप्पे' अपहतमनःसंकल्पः, तत्रापहतो विनष्टो मनसः संकल्पो विचारो यस्य स तथा उद्भ्रान्तमना इत्यर्थः, 'चिंतासोयसागरसंपविटे' चिन्ताशोकसागरसंप्रविष्टः चिन्तासमुद्रे शोकसमुद्रे च प्रविष्टः 'करयलपल्हत्थमुहे' करतलप्रन्यस्तमुखः साध्वीवियोगतः स्वहस्ततले स्थापितमुख इत्यर्थः, 'अदृज्झाणोवगए' आर्तध्यानोपगतः-आर्तध्यानं संप्राप्त इत्यर्थः, एतादृशः सन् 'विहारं वा करेइ' विहारं वा करोति अयं भावः-स्वगणसम्बन्धिन्या परगणसम्बन्धिन्या वा श्रमण्या सह मार्गे गच्छन् श्रमणः यदि कदाचित् अग्रे गच्छति दूरं पश्चाद् वा श्रमणो भवति, कदाचित् श्रमणः पुरतो भवति साध्वी पश्चात् भवति, कदाचित् श्रमणः पश्चाद् भवति श्रमणी अग्रे भवति तदा श्रमणीवियोगात् श्रमणोऽपहतमनःसंकल्पो भूत्वा शोकसागरे पतित इवातेध्यानोपगतः सन् विहारं करोति, अन्यत्सर्वं पूर्ववद् व्याख्येयम् ।।सू०११॥ सूत्रम्-जे भिक्खू णायगं वा अणायगं वा उवासयं वा अणुवासयं वा अंतो उवस्सयस्स अद्धं वा राई कसिणं वा राई संवसावेइ संवसावेतं वा साइज्जइ |सू० १२॥ छाया-यो भिक्षुआतकं वा अज्ञातकं वा उपासकं वा अनुपासकं वा अन्तरुपा श्रयस्यार्द्धा वा रात्रि कृत्स्ना वा रात्रि संवासयति संवासयन्तं वा स्वदते ॥सू०१२।। चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘णायगं वा' ज्ञातकं वा स्वजनं स्वपरिचितं वा 'अणायगं वा' अज्ञातकम्-स्वजनातिरिक्तमपरिचितं वा 'उवासयं वा उपासकम्-जिनधर्मोपासकं श्रावकं वा 'अणुवासयं वा' अनुपासकं वा-अन्यमतावलम्बिनं वा 'अन्तो उवस्सयस्स' अन्तर्मध्ये उपाश्रयस्य वसतेमध्ये इत्यर्थः 'अद्ध वा राई' अर्धी वा रात्रिम् શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy