SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ॥ अष्टमोद्देशकः ॥ गतः सप्तमो देशकः, अथाष्ठमः प्रारभ्यते, सप्तमोदेशकस्यान्तिमसूत्रेण सहास्याष्टमोदेशकादिसूत्रस्य कः सम्बन्धः ? इति सम्बन्धप्रतिपादनायाह भाष्यकार:—'पुव्वं खलु' इत्यादि । भाष्यम्-पुव्वं खलु आगारा, कहिया ते कहिं कइविहा होति । आगंतागाराइसु, विहार-सज्झाय-पभिईओ ॥१॥ छाया-पूर्व खलु आकाराः कथितास्ते कुत्र कतिविधा भवन्ति । आगन्त्रागारादिषु विहार स्वाध्याय-प्रभृतयः ॥२॥ अवचूरिः --पूर्व सप्तमो देशकस्यान्तिमसूत्रे आकाराः कथिताः, ते च केषु केषु स्थानेषु भवन्तीति प्रश्ने कथयति-ते आकारा आगन्त्रागारादिषु भवन्ति ते कतिविधाः । इति प्रश्ने कथयति विहार-स्वाध्याय-प्रभृतयो भवन्ति । सप्तमोदेशकस्यान्ते आकाराः कथितास्तेषां स्थानानि तत्प्रकाराणि चास्मिन् अष्टमोद्देशके प्रदर्शयिष्यन्ते, एष एव सम्बन्धः सप्तमाष्टमोदेशकगतपूर्वापरसूत्रयोरिति, अनेन सम्बन्धेनायातस्यास्याष्टमोदेशकस्येदमादिसूत्रम्-'जे भिक्खू आगंतागारेसु बा' इत्यादि । सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा एगो एगित्थीए सद्धिं विहारंवा करेइ सज्झायं वा करेइ असणं वा पाणं वा खाइमं वा साइमंवा आहा रेइ, उच्चारं वा पासवणं वा परिठवेइ, अण्णयरंवा अणारियं निठुरं मेहुणं अस्समणपाओग्गं कहं कहेइ कहेंतं वा साइज्जइ ॥ सू० १॥ छाया--यो भिक्षुरागन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा परिव्राजकावसथेषु वा एकः एकया स्त्रिया सार्द्ध विहारं वा करोति, स्वाध्यायं वा करोति, अशनं वा पानं वा खाद्य वा स्वाद्य वा आहरति, उच्चारं वा प्रस्रवणं वा परिष्ठापयति, अन्यन्तरां वा अनार्या निष्ठुरां मैथुनीमश्रमणप्रयोग्यां कथां कथयति कययन्तं वा स्वदते ॥ सू० १॥ चूर्णी-जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः 'आगंतागारेसु वा आरामागारेसु वा 'गाहावइकुलेसु वा परियावसहेसु वा' एषामर्थः सप्तमोद्देशके गतः । एषु स्थानेषु 'एगो एगित्थीए सद्धि' एकः स्वयमेकाको सन् एकया स्त्रिया सार्द्धम् 'विहारं वा करेई' विहारं वा करोति एकः साधुरेकाकिन्या स्त्रिया श्राविकया श्रमण्या वा सार्द्धम् विहारं गमनागमनं प्रामाद ग्रामान्तरगमनं वा करोति 'सज्झायं वा करेइ' स्वाध्यायं वा करोति, तत्र स्वाध्यायः सूत्रार्थयोरध्ययनं શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy