________________
चूर्णिभाष्यावचूरिः उ०७ सू०९१-९३
मातृग्रामप्रकरणम् १८७
प्रतीच्छति स्त्रीभ्यः गृह्णीयात् 'पडिच्छंतं वा साइज्जइ' प्रतीच्छन्तं गृह्णन्तं वा स्वदतेऽनुमोद प्रायश्चित्तभागी भवति ।। सू० ९९ ॥
सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए अण्णयरेणं इंदिएणं आकारं करेइ करेंतं वा साइज्जइ ॥ सू० ९२॥
छाया -यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अन्यतरेण इन्द्रियेणाकारं करोति कुर्वन्तं वा स्वदते ॥ सू० ९२ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए ' मैथुनप्रतिज्ञया - मैथुनवाञ्छया 'अण्णयरेणं इंदिएणं' अन्यतरेण केनापि इन्द्रियेण पुरुषस्य स्त्रियो वा इन्द्रियाकारेण स्तनमुखाद्यङ्गोपाङ्गरूपं किञ्चिदपि इन्द्रियमाश्रित्येत्यर्थः, स्तनमुखा - दीनामिति भावः ' आकारं करेइ' आकारं करोति, स्त्रियोऽग्रे हस्तादिना चित्रकर्मणा वा एता दृशमाकारं रचयति चित्रयति वा येन स्त्रियो मनसि रागः समुत्पद्येत, शरीरं रोमाञ्चितं कम्पायमानं च भवेत्, 'मुखाद्याकारावलोकनेन द्रवीभूता सती स्त्री माममिलषिष्यति' इति बुद्धया स्त्रियोऽग्रे आकारं कुर्यात् चित्रयेद्वा उपलक्षणात् हस्तनेत्रभ्रप्रभृतिभिर्विकारजनकां चेष्टां वा कुर्यात् 'कतं वा साइज ' कुर्वन्तमन्यं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ ९२ ॥ सूत्रम् - तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ॥ सू० ९३ ॥
छाया
॥ सतमो उद्देसो समते ॥ ७ ॥
- तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ॥९३॥ ॥ सप्तमोद्देशकः समाप्तः ॥ ७ ॥
-
चूर्णी - 'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः तत् उद्देशकस्यादौ तृणमालिकादिकरणादारभ्य उद्देशकान्ते आकारपर्यन्तं यानि प्रायश्चित्तस्थानानि प्रोक्तानि तन्मध्यात् यत् किमप्येकं प्रायश्चित्तस्थानं सेवमानः प्रतिसेवनं कुर्वाणः 'आवज्जर' आपद्यते प्राप्नोति 'चाउम्मासि' चातुर्मासिकम् ' परिहारद्वाणं' परिहारस्थानं प्रायश्चित्तस्थानम् 'अणुग्घाइयं' अनुद्घातिकं गुरुकम् । अयंभावः - यः कोऽपि भिक्षुः एतेषु सप्तमो देशकोक्तप्रायश्चित्तस्थानेषु मध्यात् यत् किमपि एकम् अनेकं सर्व वा प्रायश्चित्तस्थानं प्रतिसेवते स गुरुचातुर्मासिकं प्रायश्चित्तं प्राप्नोतीति भावः ॥ ९३ ॥ इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलित ललित कलापालापकप्रविशुद्ध गद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त“जैनशास्त्राचार्य”- पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री - घासीलालवति - विरचितायां “निशीथ सूत्रस्य" चूर्णि भाष्यावचूरिरूपायां व्याख्यायां सप्तमोद्देशकः समाप्तः ॥७॥
શ્રી નિશીથ સૂત્ર