________________
चूर्णिभाष्यावचूरिः उ० ७ सू० २-५
मातृग्रामप्रकरणम् १७३ मालिकां वा अस्थिमालिकां वा काष्ठमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा बीजमालिकां वा हरितमालिकां वा धरति धरन्तं वा स्वदते ॥सू० २॥
__चूर्णी- जे भिक्खू' इत्यादि । पूर्वोक्ता मालाः 'धरेइ' धरति-पार्श्वे स्थापयति, धरन्तं वा स्वदते इति । शेषं पूर्ववत् ।। सू० २॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए तणमालियं वा मुंजमालियं वा वेत्तमालियं वा मयणमालियं वा पिंछमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हड्डमालियं वा कट्ठमालियं वा पत्तमा. लियं वा पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा पिणद्धेइ पिणखेंतं वा साइज्जइ ॥ सू० ३ ॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया तृणमालिकां वा मुञ्जमालिकां वा वेत्र मालिकां वा मदनमालिकां वा पिच्छमालिकां बा दन्तमालिकां वा शृङ्गमालिकां वा शङ्खमालिकां वा अस्थिमालिकां वा काष्ठमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा बोजमालिकां वा हरितमालिकां वा पिनाति पिनान्तं वा स्वदते ॥सू० ३॥
चूर्णी-'जे भिक्खू' इत्यादि । यो भिक्षुः तृणादीनां मालां पूर्वोक्तवस्तुजातनिर्मितां मालां 'पिणद्धेई पिनाति-कण्ठे धारयति पिनह्यन्तं का स्वदते अनुमोदते । आभिर्मालाभिर्मदीयं शरीरमलंकृतं सुन्दरं भवतु, अलंकृतेन सुन्दरेण शरीरेणाहं कामिनीनां प्रियो भविष्यामि तेन सा मम मैथुनेच्छां पूरयिष्यतीति बुद्ध्या तृणादिमालाः यः कश्चिद्भिक्षुः स्वयं कण्ठे धारयति धारयन्तं चान्यमनुमोदते स प्रायश्चित्तभागी भवति, आज्ञाभङ्गादिदोषांश्च प्राप्नोतीति ॥ सू० ३ ॥ भाष्यम्-तणमाइमालियाणं, करणं धरणं च मेहुणिच्छाए ।
कुज्जा अप्पपरहा, आणाभंगाइ पावेइ ॥ छाया-तृणादिमालिकानां करणं धरणं च मैथुनेच्छया ।
कुर्यात् आत्मपरार्थ, आज्ञाभङ्गादि प्राप्नोति ॥ अवचूरिः–'तणमाइ' इत्यादि । यो भिक्षुः 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनेच्छया तृणादिमालिकानां करणं संपादनं धरणं स्वशरीरे धारणं च कुर्यात् स आज्ञाभङ्गादिदोषान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादिदोषान् प्राप्नोति । अयं भावः-तृणादिमालाकरणे धारणे मालया शरीरविभूषाकरणे च स्वस्य परस्य मोहोदयो जायते, तथा तृणादिमालाकरणे तद्धारणकरणे च सूत्रार्थपठनपाठनसमयस्य व्यर्थनिर्गमनेन सूत्रार्थयोर्हानिर्भवति, तीर्थ करैरनाज्ञप्तं
શ્રી નિશીથ સૂત્ર