SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १७२ निशीथसूत्रे मालां करोति, यथा मथुरायां करोति, करोतीत्यग्रिमेण क्रियापदेन सम्बन्धः, तथा 'मुंजमालियं वा ' मुमालिकां मुंजस्य तन्नामकतृणविशेषस्य मालां करोति यथा द्विजानां व्रतबन्धने क्रियते, तथा 'वेतमा लियं वा ' वेत्रमालिकां वा वेत्रं लताविशेषः 'वेत्र' 'नेत्र' इति लोकप्रसिद्धम्, तस्य वेत्रस्य मालां कटककेयूरादिरूपां करोति तथा 'मयणमा लियं वा' मदनमालिकां वा, तत्र मदनं पुष्पविशेषः, तस्य मालां करोति तथा ‘पिंछमालियं वा' पिच्छमालिकां वा व्रणादिपीडानिवारणार्थं मयूरादिपिच्छैर्मालां करोति 'दंतमालियं वा' दन्दमालिकां वा - बालस्य दृष्टिदोषनिवारणार्थं हस्त्यादिदन्तानां मालां करोति तथा 'सिंगमालियं वा' शृङ्गमालिकां वा महिष्यादिशृङ्गेण मालां करोति यथा पारसीयजातिविशेषे 'संखमालियं वा शङ्खमालिकां वा - बालस्य गले धारणार्थं शङ्खस्य मालां करोति 'हड्डमालियं वा' अस्थिमालिकां वा गजादिजीवानाम् 'जरख' इति प्रसिद्ध चतुष्पदपशुविशेषस्य वा अस्थनां मालां करोति 'कट्टमालियं वा' काष्ठमालिकां वा, तत्र काष्ठस्य तुलस्यादिकाष्ठस्य मालां करोति 'पत्तमालियं वा' पत्रमालिकां वा पत्राणां तगरादिसुगन्धितपत्राणां मालां करोति 'पुप्फमालियं वा' पुष्पमालिकां वा, तत्र पुष्पाणां चंपकादिवृक्षसमुद्भूतानां मालां करोति, 'फलमालियं वा' फलमालिकां तत्र फलानां गुञ्जादिफलानां मालां करोति 'बीयमालियं वा ' बीजमालिकां वा, तत्र बीजानां रुद्राक्षादीनां मालां संपादयति 'हरियमालियं वा' हरितमालिकां वा, तत्र - हरितकायानां पाण्डुप्रभृतिरोगशमनाय 'दूर्वा पुनर्नवादीनां माला 'करेइ' करोति स्वयं करोति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते अनुमोदते तृणमालिकादिकं यः स्वयं करोति परद्वारा वा कारयति कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति, यस्मादेते दोषा भवन्ति तस्मात् कारणात् श्रमणो मातृग्रामस्य मैथुनसेवनेच्छया स्वपरशरीरशोभार्थं दृष्टिदोषरोगादिनिवारणार्थं वाऽन्यार्थ तृणादिमालां न स्वयं कुर्यात् न परद्वारा कारयेत् न वा कुर्वन्त मन्यमनुमोदयेदिति ॥ सू० १ ॥ सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए तणमालियं वा मुंज मालियं वा वेत्तमालियं वा मयणमालियं वा पिछमालियं वा दंतमालियं वा सिंगमालियं संखमालियं वा हड्डमालियं वा कट्ठमालियं वा पत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा धरेइ धतं वा साइज्जइ ॥ सू० २ ॥ छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया तृणमालिकां वा मुञ्जमालिकां वा वेत्रमालिकां वा मदनमालिकां वा पिच्छमालिकां वा दन्तमालिकां वा शृङ्गमालिकां वा शङ्ख શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy