SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १७० निशीथसूत्रे छाया-यो भिक्षुर्मातृग्रामस्य मथुनप्रतिज्ञया क्षीरं वा दधि वा नवनीतं वा सर्पि र्वा गुडं वा खण्डं वा शर्करां वा मत्स्यण्डिकां वा अन्यतरं प्रणोतमाहारमाहरति आहरन्तं वा स्वदते ॥सू० २६॥ चूर्णी-'जे भिक्ख माउग्गामस्स' इत्यादि । 'जे भिक्ख' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मेथुनप्रतिज्ञया-मैथुनवाञ्छया 'खीरं वा' क्षीरं वा दुग्धम् गवादीनां दुग्धम् 'दहिं वा' दधि वा 'णवणीयं वा' नवनीतं वा 'मक्खन' इति लोकप्रसिद्धम् 'सप्पिं वा' सपिघृतं वा 'गुलं वा' गुडं वा 'खंडं वा' खण्डं वा 'खांड' 'चीनी' इति लोकप्रसिद्धम् 'सक्करं वा' शर्करां वा 'बूरा' इति प्रसिद्धाम् 'मच्छंडियं वा' मत्स्यण्डिकां वा मिसरीति लोकप्रसिद्धाम् 'अन्न यरं वा पणीयं' अन्यतरं वा प्रणीतम् सरसम् 'आहार' आहारम् 'आहरेई' आहरति दुग्धादिविकृतीनां भोजनं करोति । अयं भावः-विवर्णः शरीरदुर्बलः श्रमणः दुग्धादीनां भोजनादुपचितशरीरः सुकुमारशरीरः कामिनीनां कमनीयः स्यामिति बुद्ध्या दुग्धाद्यन्यतमं विकृतीनां भोजनं करोति सः, तथा 'आहात वा साइज्जई' आहरन्तं वा स्वदते अनुमोदते यः सोऽपि प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ।।सू० २६॥ सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं ति॥ सू० २७॥ छाया-तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकमिति ॥२७॥ चूर्णी-'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः षष्ठोद्देशकस्य 'जे भिक्खू माउग्गामस्स मेहुणवडियाए विण्ण वेइ विण्णवेत वा साइज्जइ' इति प्रथमसूत्रादारभ्य 'जे भिक्खू माउग्गामस्स मेहुणवडियाए खीरं वा' एतत्सूत्रपर्यन्तं कथितं प्रायश्चित्तस्थानं सर्व, तथा अन्यतममपि प्रायश्चित्तस्थानं सेवमानः तस्य प्रतिसेवनां कुर्वन् भिक्षुः 'आवज्जई' आपद्यते प्राप्नोति 'चाउम्मासियं परिहारठाणं अणुग्याइयं' चातुर्मासिकं परिहारस्थानमनुद्घातिकम् गुरुचातुर्मासिकं प्रायश्चित्तमापद्यते इति भावः ॥ सू० २७॥ इति श्री-विश्वविख्यात–जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालव्रति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायां षष्ठोदेशकः समाप्तः ॥६॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy