________________
चूर्णि भाष्यावचूरिः उ. ४ सू० १३४ - १३५ उच्चार प्रस्त्रवणभूमेः प्रतिलेखनाधिकारः १२९
चूर्णी -- ' जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'गामाणुगामंदुइज्जमाणे ' ग्रामानुग्रामं द्रवन् एकस्मात् ग्रामाद् ग्रामान्तरं द्वितीय ं ग्रामं प्रति गच्छन् मार्गे गमनसमये आतपादिभ्यो रक्षणबुद्धया 'अण्णमण्णस्स सीसदुवारियं करेइ' अन्योन्यस्य परस्परस्य साधुसाध्वीति परस्परं शीर्षद्वारिकाम् मस्तकोपरिवस्त्राच्छादनलक्षणां करोति संपादयति तथा 'करें वा साइज्जइ' अन्योन्यस्य शीषद्वारिकां कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । एतेषां सर्वेषां पादप्रमार्जन-कायत्रणगण्ड - केश - रोम मल-जल्लादिसूत्राणां चूर्णीमाण्याऽवचूरयस्तत्तत्सूत्रव्याख्याऽवसरे तृतीयोदेशके एव द्रष्टव्याः ॥ सू० १३३ ॥
अत्राह भाष्यकार:
भाष्यम् – पमज्जणाइसुत्ताणं, तइए जो गमो मओ ।
साहूणीय साहूणं, अन्नोन्नमेत्थ आहिओ ||
—
छाया - प्रमार्जनादिसूत्राणां तृतीये यो गमो मतः । साध्वीनां च साधूनामन्योन्यमत्राख्यातः ॥
अवचूरि : - ' पमज्जणाई' इत्यादि । प्रमार्जनादिसूत्राणां पादप्रमार्जनादारभ्य शीर्षद्वारिकापर्यन्तं त्रिपञ्चाशत्सूत्राणां यो गमो यादृशस्तृतीये उद्देशके अरख्यातः स एव गमः प्रकारः अत्र चतुर्थे चतुर्थोदेशके साध्वीनां साधूनां च अन्योन्यं शोर्षद्वारिकाकरणे ज्ञातव्य इति सर्वमत्र तृतीयोदेशकवदेव व्याख्यातव्यमिति ॥ सू० १३३॥
यावत् शब्देन गृहीतानि सूत्राणि व्याख्यातानि सम्प्रति क्रमप्राप्तं सूत्रमाह - 'जे भिक्खू' इत्यादि ।
सूत्रम् -- जेक्खू साणुपाए उच्चारपासवणभूमिं ण पडिलेहेड, ण पडिले वा साइज्जइ ||सू० १३४ ||
छाया -यो भिक्षुः सानुपादे उच्चारप्रस्रवणसूमिं न प्रतिलेखयति न प्रतिलेखयन्तंवा स्वदते || सू० १३४ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः श्रमणः 'साणुपाए' सानुपादे, पादः चतुर्थभागरूपः, तम् अनु - अधिकृत्य यद् भवति तद् अनुपादं तेन सहितं सानुपादम् - दिवसस्य चतुर्थभागावशेषं, तस्मिन् सानुपादे चतुर्थभागावशेषायां चरमायां पौरुष्या मित्यर्थः, यो भिक्षुः 'उच्चारपासवण भूमिं ण पडिले हेइ' उच्चारप्रस्रवणभूमिं न प्रतिलेखयति, अयं भावः - रात्रौ यत्र उच्चारप्रस्रवणं व्युत्स्रक्ष्यते तादृशभूम्या यदि दिवसावसाने चरमपोरुष्यामेव प्रतिलेखनं न करोति तथा 'ण पडिले वा साइज्जइ' न प्रतिलेखयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १३४॥
શ્રી નિશીથ સૂત્ર