________________
निशीथसूत्रे विशेषत उपानद्धारणे दोषान् दर्शयति-'गव्यो' इत्यादि । भाष्यम्-गव्यो निम्मदवया, निप्येक्खो य णिद्दय-णिरंतरया ।
भूयाणं उवघाओ, कसिणे चम्मम्मि छद्दोसा ॥ छाया-गर्यो निर्मार्दवता निरपेक्षो निर्दय-निरन्तरता।।
भूतानामुपघातः कृत्स्ने चर्मणि षड् दोषाः ॥ अवचूरिः-गर्वः-उपानहा संनद्धचरणः पुरुषोऽश्वादावारूढः पादचारिणं पुरुषमिवानुपानहमनादृत्य स्वस्मिन् गर्व धारयति-यदहमेतेभ्यो गरीयान् उपानद्भयां चलामि, एते रङ्का उपानविहीनाः, इत्थमुपानद्धीनं पुरुषं विलोक्य सर्वदैव गर्वयुक्तो भवति ११ निर्मार्दवता-उपानद्रहितचरणाभ्यां संचलन् चरणस्य मृदुत्वेन न तथा जीवोपघाताय भवति यथा उपानद्भयां संनद्धचरणा मार्दवराहित्येन कठिना अधिकभाराकान्ता जीवोपघाताय भवन्ति । एतावता गर्यो निर्दित्वं च व्याख्यातम् २।
निरपेक्ष इति यस्य चरणे-उपानही न स्तः स मार्ग विलोक्य व्रजति, अन्यथा चलने मम चरणे कण्टकादिवेधः स्यात् , इति कण्टकवेधभयात् सोपयोगचलति, चलन् जीवोपरि-उपयोगं ददत् जीवसद्धं रक्षति । यदा तूपानझ्यामाच्छादितचरणो व्रजति तदा निरपेक्षतया चलन् निरपायत्वादात्मनः कण्टकादिकमुपेक्षमाणो जीवेष्वप्युपेक्षां करोति ३।।
'नियनिरंतरया' इत्येकपदत्वात् 'ता' इत्यस्य द्वयोरपि सम्बन्धः, तेन निर्दय इति निर्दयता । आदौ यदाऽऽत्मनो मनसि निर्दयत्वं कृतं भवति तदा चरणयोरुपानही धरति, एवंप्रकारेण स्वभावतो दयालुरपि पुरुषः कठोरो भवति, इति दयापरस्यापि तस्य निर्दयता समागच्छति, इत्थं निर्दयत्वं भवति ।।
निरन्तरता-उपानत्संनद्धपादेन षड्जीवनिकायानां विनाशस्याऽवश्यम्भावात् निरन्तरता पापबन्धस्य नैरन्तर्यात् , इति । शुद्धेन चरणेन यदा भूमौ चलति तदा भूतानां विराधनं न भवति । उपानद्वे. ष्टितचरणतलगतो जीवः कदापि न जीवति कठिनत्वात् , अतिभारत्वात् , अवकाशाऽभावाच्चेति ५।
भूतोपघातश्चेति-स्वभावतो दुर्बलदेहानां कोमलाऽवयवानां भूमौ चलतां लघुजीवानां सोपानकचरणैरुपघातो भवत्येव, इति षष्ठो भूतोपघातदोषोऽप्यवश्यम्भावी ६। यत इमे दोषा उपानद्वारणे ततो भिक्षुभिरुपानद्धारणं नैव कर्त्तव्यमिति विवेकः ॥ सू० २२ ॥
सूत्रम्-जे भिक्खू कसिणाणि वत्थाई धरेइ धरे वा साइज्जइ ॥ छाया-यो भिक्षुः कृत्स्नानि वस्त्राणि धरति धरन्तं वा स्वदते ॥ सू० २३ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः ‘कसिणाणि वत्थाई' कृत्स्नानि वस्त्राणि, तत्र-प्रमाणादधिकानि वस्त्राणि कृत्स्नवस्त्राणि 'धरेई घरति, कृत्स्नवस्त्राणामुपभोगं
શ્રી નિશીથ સૂત્ર