________________
चूर्णिभाष्यावचूरिः उ० २ सू० २३
कृत्स्नवस्त्रधारणनिषेधः ४५
छाया-कृत्स्नं चतुर्धा प्रोक्तं, सकलादिप्रभेदतः ।
चतुर्विधस्य चर्मणो धारणं नैव कल्पते ॥ अवचरिः- 'कसिणं' इत्यादि । कृत्स्नं चतुर्धा-चतुष्प्रकारकं प्रोक्तं भवति सकलादिप्रभेदतः, तद्यथा-सकलकृत्स्नम्-१, प्रमाणकृत्स्नम् २, वर्णकृत्स्नम् ३, बन्धनकृत्स्नं ४ च । एतत् चतुर्विधं कृत्स्नं भवति । एतच्चतुर्विधस्य-चतुष्प्रकारकस्याऽपि कृत्स्नस्य चर्मणो धारणं भिक्षणां न कल्पते ।। सू० २२ ॥ भाष्यम्-एगपुड सयलकसिणं १, पमाणकसिणं २ च होइ दुपुडाई।
कोसग-खल्लग-वगुरी-खवुसा-जंघ-दजंघा य ॥ किसणाइपंचवण्णगचम्मेणं निम्मियं च वण्णकसिणं ३।
बंधणकसिणं जमिहा, बंधणतिगो परं चउत्थाई ४ ॥ छाया-एकपुटं सकलं कृत्स्नं, प्रमाणकृत्स्नं च भवति द्विपुटादिकं ।
कोशक-खल्लक-वागुरी-खपुसा-जवा-ऽर्द्धजङ्घा च ॥ कृष्णादिपञ्चवर्णकचर्मणा निर्मितं च वर्णकृत्स्नम् ।
बन्धनकृत्स्नं यदिह बन्धनत्रिकतः परं चतुर्थादि ॥ अवचूरिः-'एगपुड' इत्यादि । तत्रैकपुटम्-एकतलमखण्डितं सकलकृत्स्नं भवति । द्विपुटादिकं-द्वयादितलादिकम् यत्रोपानहादौ तत्प्रमाणकृत्स्नं भवति । अस्यैव प्रमाणकृत्स्नस्य भेदानाह-तद्यथा-कोशक-खल्लक-वागुरी-खपुसा-जङ्घाऽर्द्धजवाप्रभृतिका लोके व्यवहियमाणा भेदाः, तत्र-कोशकं-चर्ममयं (कोथलो-थैली) इतिप्रसिद्धम् , यस्मिन् प्रवेशितचरणाङ्गुलिनखो मार्गे संचलतो न भज्यते-न भिद्यते तत् , सा च चर्ममयी कुत्थलिका १। खल्लकम्अत्र पुनद्वौं भेदौ-अर्द्धखल्लकं, सर्वखल्लकं च। तत्र-तलप्रतिबद्धं यावत्खल्लकैरनुस्यूतं यत्रोपानहि साऽर्द्धखल्लकोपानत् , या च-समस्तमेव चरणमाच्छादयति सा सर्वखल्लकोपानत् २ । या च पुनरङ्गुलीश्छादयित्वा चरणावुपरि छादयेत् सा वागुरी वागुरा वा ३। खपुसा सा या जानु पिदधाति-छादयति ४। या जङ्घापर्यन्तमाच्छादयति सा जङ्घा समस्तजचेति यावत् ५। जवाया अद्धभागमेव याऽऽच्छायेत्साऽद्धेजछोपानत् ६ । इति प्रमाणकृत्स्नमिति द्वितीयो भेदः २। ॥१॥
सम्प्रति भाष्यगततृतीयभेदमाह-'किसणाई' इत्यादि, यत् पुनश्चर्म वर्णेन कृष्णादिना शोभा पुष्णाति तत् वर्णकृत्स्नम् , तच्च वर्णकृत्स्नं चर्म कृष्णादिवर्णेन पञ्चविधं भवति, वर्णस्य पञ्चविधत्वात् ३। बन्धत्रयात्परं चतुर्थादिबन्धनयुक्तं यत् तद् बन्धनकृत्स्नं भवतीति चतुर्थो भेदः ४। इत्थं सकल. चर्मनिर्मितोपकरणानामुपानहादीनां च धारणं साधूनां न कल्पते इति दिग्दर्शनम् ॥ सू० २२ ॥
શ્રી નિશીથ સૂત્ર