SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०२ सू० २० -२२ अदत्तादान -हस्तादिप्रक्षालन-चर्मधारणनिषेधः ४३ सूत्रम्--जे भिक्खू लहुस्संग अदत्तमादियइ आदियंतं वा साइज्जइ ॥ सू० २०॥ छाया-यो भिक्षुर्लघुस्वकमदत्तमाददाति आददतं वा स्वदते ॥ सू० २०॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'लहुस्सगं' लधुस्वकम् स्वल्पमपि, अदत्तं तत्स्वामिनाऽप्रदीयमानम् 'आदियई' आददाति--गृह्णाति, 'आदियंत वा' आददतं वा स्वदते- स्तोकमपि--अदत्तादानं कुर्वन्तं श्रमणमनुमोदते स प्रायश्चित्तभार भवतीति ॥ सू० २० ॥ भाष्यम्-दव्वे खेत्ते तहा काले, भावे चेयं चउव्विहं । एएसि च जहासत्थं, णाणतं अवगम्मइ ॥ छाया-दव्वे क्षेत्र तथा काले भावे चैतच्चतुर्विधम् । एतेषां च यथाशास्त्रं नानात्वमवगम्यते ॥ अवचूरी-'दव्वे' इत्यादि । अदत्तम् अदत्तादानं चतुर्विधम्-द्रव्यक्षेत्रकालभावैः चतुष्प्र. कारकं भवति । तत्र द्रव्ये-वस्त्रयात्रादौ, क्षेत्रे –वसत्यादौ, काले-अतीतादौ, भावे-भावविषयेरागादौ । एतेषां द्रव्यादिविषयकादत्तादानानां नानात्वम्-अवान्तरभेदो यथाशास्त्रं शास्त्रोक्तप्रकारेणाऽवगम्यते-बुध्यते ॥ सू० २० ॥ सूत्रम्-जे भिक्खू लहुस्सएण सीओदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा पायाणि वा कण्णाणि वा अच्छीणि वा दंताणि वा नहाणि वा मुहं वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा पधोतं वा साइज्जइ ।। सू०२१॥ छाया-यो भिक्षुर्लघुस्वकेन शोतोदकविकटेन वा-उण्णोदकविकटेन वा हस्तौ वा पादौ वा कर्णौ वा अक्षिणी वा दन्तान् वा नखान् वा मुखं वा, उच्छोलेद्वा प्रधावेद्वा उच्छोलन्तं वा प्रधावन्तं वा स्वदते ॥ सू० २१ ॥ चूर्णी— 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'लहुस्सएण' लघुस्वकेन-स्वल्पेन बिन्दुमात्रेणाऽपि 'सीओदगवियडेण वा' शीतोदकविकटेन वा, अत्र विकटशब्दोऽचित्तबोधकः, व्यपगतजीवेन जलेनेत्यर्थः, तण्डुलधावनाद्यचित्तजलेनेति यावत् । 'उसिणोदगवियडेण वा' उष्णोदकविकटेन वा अचित्तेनोष्णजलेनेत्यर्थः । तथा चोपर्युक्तजलेन भिक्षुः 'हत्थाणि वा' हस्तौ वा 'पायाणि वा' पादौ वा 'कण्णाणि वा' कर्णौ वा 'अच्छीणि वा' अक्षिणी वानेत्रे वा 'दंताणि वा' दन्तान् वा 'नहाणि वा' नखान् वा 'मुहं वा' मुखं वा 'उच्छोलेज्ज શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy