________________
निशीथसूत्रे अत्र शिष्यः प्राह- ययेवं तदा भावपरुषमेव वक्तव्यम् द्रव्यादिषु परुषत्वं कथं कथ्यते ! आचार्यः प्राह--द्रव्यादिषु-उपचारकरणमात्रम् यतस्ते क्रोधादयो द्रव्यादिसमुत्थिता एव भवन्ति, तथा च क्रोधादौ भावे मुख्यं परुषत्वम् , क्रोधादिकारणे तु द्रव्यादौ-उपचारात् परुषत्वं भवति । यः साधुरेतेषामन्यतमं परुषमीषदपि वदति, स आज्ञाभङ्गानवस्थात्मसंयमविराधन प्राप्नोति, तथा-मिथ्यात्वं च समापद्यते अतः साधुभिरेतादृशं परुषवचनं न वक्तव्यम् ॥ सू० १८ ॥
सूत्रम्-जे मिक्खू लहुस्संग मुसं वयइ वयंतं वा साइज्जइ॥सू०१९॥ छाया--यो भिक्षुर्लघुस्वकं मृषा वदति वदन्तं वा स्वदते ॥ सू० १९ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'लहुस्सगं' लघुस्वकं स्तोकमल्पमपि, 'मुसं' मृषाऽसत्यवचनम् 'वयइ' वदति-अल्पमप्पसत्यभाषणं करोतीत्यर्थः, 'वयंत वा साइज्जइ' वदन्तं वा स्वदतेऽनुमोदते स प्रायश्चितभाग भवति, तस्याज्ञाभङ्गादिदोषा भवन्ति ।। सू० १९ ॥
अत्राह भाष्यकार:-'दन्वे' इत्यादि । भाष्यम्-दव्वे खेत्ते तहा काले, भावे य त्ति चउन्विहा ।
जहासत्थं मुसाभासा, तीए भेया जहक्कम ॥ छाया-द्रव्ये क्षेत्र तथा काले भावे चेति चतुर्विधा ।
यथाशास्त्रं मृषाभाषा तस्या भेदा यथाक्रमम् ॥ अवचूरिः-मृषाभाषा असत्यभाषणं, यथाशास्त्रं शास्त्रोक्तप्रकारेण चतुर्विधा चतुष्प्रकारा भवतीति ज्ञेया । तथा-तस्या मृषाभाषाया भेदा यथाक्रमं आनुपूर्व्या क्रमेणेत्यर्थः, ज्ञातव्या इति । तत्र द्रव्ये-वस्त्रपात्रादिषु, क्षेत्रे-संस्तारकवसतिप्रभृतिषु, काले-अतीतेऽनागते वर्तमाने च भाषादिषु । तत्र-द्रव्ये यथा-वस्त्रे पात्रं सहसा वदेत् , पुनरेवं वदेत्-नेदं तव किन्तु ममेदं वस्त्रं पात्रं वेति द्रव्यभूतोऽनुपयुक्त एव वदेत् ।
अथवा-वस्त्रं पात्रं वा परेण समुत्पादितम् परन्तु--अनानीतमपि पृष्टः सन् एतत्सर्व वस्त्रपात्रादिकं मयाऽऽनीतम् , एवं क्रमेण द्रव्ये मृषा वदति । एवं क्षेत्रे यथा--रजन्यां तमसावृतायां संमूढः परस्य संस्तारकादिकं ममेदमिति ज्ञात्वा, त्वमितो निःसरेति मृषा वदति । यद्वा--मासकल्पप्रायोग्यं वा वर्षावासप्रायोग्यं वा वसत्यादिकं ऋतुकालप्रायोग्यं वाऽन्येनोत्पादितं मयोत्पादितमित्येवं वदति, एषा क्षेत्रविषये मृषाभाषा | काले- मृषावादो यथा--एकः कश्चित् श्रद्धाशील एकैन साधुना उपशामितः, तदनु-अन्येन साधुना पृष्टः-केन श्रमणेनायं श्रावक उपशामितः ? तदा कथयति परः साधुः-अन्यदा कदाचिद् विहरता सता मयैष श्राद्ध उपशामितः । एवं भावेऽपि--कषायवशेन वदतीति ज्ञातव्यमिति । एतेषां द्रव्यक्षेत्रादिभेदभिन्नानां मध्यात्--अन्यतममपि मृषावादं वदति तस्य भिक्षुकस्याऽऽज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादयो दोषा भवन्तीति ॥ सू० १९॥
શ્રી નિશીથ સૂત્ર