________________
४०
निशीथसूत्रे छाया-यो भिक्षुः सौत्रिकं वा रज्जुकं वा चिलमिलि स्वयमेव करोति कुर्वन्तं वा स्वदते ॥ सू० १३ ॥
__चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः श्रमणः श्रमणी वा सौत्रिकी कार्पाससूत्रोर्णासूत्रसम्पादितां वा, रज्जुकां वा कार्पासादिसूत्रनिर्मितदवरिकासंपादितजालिकासम्पन्नां वा चिलिमिलीं आच्छादनपटरूपां स्वयं करोति अन्यद्वारा वा कारयति कुर्वन्तं वाऽन्यं श्रमणमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १३ ॥
सूत्रम्-जे भिक्खू सूईए उत्तरकरणं सयमेव करेइ करेंतं वा साइज्जइ॥ छाया-यो भिक्षुः सूच्या उत्तरकरण स्वयमेव करोति कुर्वन्तं वा स्वदते ॥ सू०१४ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'सूईए' सूच्याः उत्तरकरणं, तत् पञ्चविघं भवति, तथाहि-छिद्रवर्धनम् १, श्लक्षणकरणम् २, तीक्ष्णकरणम् ३, लोहकारशालायां गत्वा तापनम् ४, ऋजुकरणं ५ चेति । एतत् पञ्चविधमप्युत्तरकरणं सूच्याः स्वयं साधुः साध्वी वा करोति कुर्वन्तं वाऽन्यं श्रमणमनुमोदते स दोषभाग् भवतीति ॥ सू० १४ ॥
सूत्रम्-एवं पिप्पलगस्स उत्तरकरणम् । सू० १५॥णहच्छेयणगस्स उत्तरकरणम् ॥ सू० १६ ॥ कण्णसोहणगस्स उत्तरकरणम् ॥ सू० १७॥
छाया-एवं पिप्पलकस्योत्तरकरणम् ॥ सू० १५ ॥ नखच्छेदनकस्योत्तरकरणम् ॥सू० १६॥ कर्णशोधनकस्योत्तरकरणम् ॥ सू० १७॥
चूर्णी-चिलिमिलिकामारभ्य कर्णशोधनकपर्यन्तं पञ्चसूत्री प्रथमोद्देशे कथिता अत्र पुनः सैव कथ्यते, तत्र को हेतुरिति चेत् अत्रोच्यते-तत्राऽन्यतीर्थिकद्वारा गृहस्थद्वारा वा करणं कारणं कुर्वतोऽनुमोदनं च निषिद्धम् , अत्र तु-स्वयं करणं कुर्वतोऽनुमोदनं च निषिध्यते । एतावान् भेदोऽतो न पुनरुक्तिः व्याख्या सुगमा । सू० १७॥
सूत्रम्-जे भिक्खू लहुस्सगं फरुसं वयइ वयंतं वा साइज्जइ ॥१८॥ छाया-यो भिक्षुः लघुस्वकं परुष वदति वदन्तं वा स्वदते ॥ सू०१८॥
चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'लहुस्सगं फरुसं' लघुस्वकं परुषम् ईषदपि कठोरं वचनम् 'वयइ' वदति 'वयंत वा साइज्जइ' वदन्तं वा स्वदतेऽनुमोदने स स्नेहवर्जितकठोरवचनवक्ता प्रायश्चित्तभाग भाषासमिति विराधयति ॥ सू० १८ ॥ भाष्यम् –फरुसं चउहा णेयं, दवे खेत्ते य कालगे ।
भावे जहक्कम वोच्छं, जहासत्थं वियारियं ॥ छाया--परुषं चतुर्धा ज्ञेयं, द्रव्ये क्षेत्रे च कालके ।
भावे यथाक्रमं वक्ष्ये, यथाशास्त्र विचारितम् ॥
શ્રી નિશીથ સૂત્ર