________________
चूर्णिभाष्यावचूरिः उ० २ सू० ११-१८
उदकवीणिका-शिक्थकादिप्रकरणम् ३९
'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदतेऽनुमोदते कायेन वाचा मनसा वा प्रशंसति, स आज्ञा भङ्गादिकान् दोषान् प्राप्नोति । विस्तारः प्रथमोद्देशे ॥ सू० ११ ॥
सूत्रम् - जे भिक्खू सिक्कगं वा सिक्कगणंतगं वा सयमेव करेइ करेंतं वा साइज्जइ || सू० १२ ॥
छाया -यो भिक्षुः शिक्यकं वा शिक्यकान्तकं वा स्वयमेव करोति कुर्वन्तं वा स्वदते ॥ सू० १२ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सिक्कगं वा' शिक्यकं वा आहारपात्रादिस्थापनार्थे वियति कीलकादौ यदवलम्ब्यते तत् शिक्यकं प्रोच्यते 'छींका' इति लोकप्रसिद्धम् । 'सिक्कगणंतगं वा' शिक्यकाच्छादनकं-शिक्यक पिधानक मित्यर्थः । ' सयमेव करेइ' स्वयमेव करोति, मुञ्जकादिमयं शिक्यकं संपादयति, 'करेंतं वा साइज्जइ' कुर्वन्तं वाऽन्यं स्वदतेऽनुमोदते स आज्ञाभङ्गादिकान् दोषानाप्नोति ॥ सू० १२ ॥
अत्राह भाष्यकार : - 'सिक्कगे' इत्यादि ।
भाष्यम् - सिक्कगं दुविहं वृत्तं, तस - थावर - देहजं । अंडा तसाज्जायं, थावरे मुंजगाइंग ||
छाया - शिक्यकं द्विविधम् उक्तं त्रसस्थावर देहजम् । अण्डजादित्रसज्जातं स्थावरे मुञ्जकादिकम् ॥
अवचूरि : - - शिक्यकं द्विविधं - द्विप्रकारकं प्रोक्तं कथितम् सस्थावरदेहजम् त्रसदेहाज्जायमानम्, तथा स्थावरजीवस्य देहाज्जायमानम् । प्रथमभेदमाह - तत्राऽण्डजादित्रसाज्जातम्, अर्थात्-अण्डजदेहाज्जातम्, तत्र - अण्डजा हंसादयस्तेषां लोमभ्यो जायमानम् एवमुष्ट्रदेहात् तथा - कीटदेहात् - ' कीटज - रेशम' इतिलोकप्रसिद्धात् जायमानम् एतत्सर्व सजीवदेहविनिर्मितं शिक्यकं भवति । इति प्रथमो भेदः ।
,
अथ द्वितीयभेदमाह - स्थावरदेहजं तु कार्पासजनितम्, शणजनितम्, नारिकेलजनितम्, मुञ्जजनितम्, दर्भजनितम्, वेत्रजनितम्, वेणुजनितं च । ततश्च सस्थावरजीवदेहनिष्पन्नस्य शिक्यकस्य निर्माणेऽवश्यं जीवविराधना स्यात् अतो भिक्षुणा स्वयं शिक्यकं न निर्मातव्यम्, न वा-निर्मातुरनुमोदनं कर्त्तव्यम् । निर्माणेऽनुमोदने वा जीवविराधना संभवेन संयमव्याघातात् ॥
सूत्रम् - जे भिक्खू सोत्तियं वा रज्जुयं वा चिलमिलि सयमेव करेइकरेंतं वा साइज्जइ ॥ सू० १३ ॥
શ્રી નિશીથ સૂત્ર