________________
॥ द्वितीयोद्देशकः ॥ कथितः प्रथमोदेशकः, इदानीमवसरप्राप्तो द्वितीयोदेशकः प्रारभ्यते, अस्य प्रथमोद्देशकेन सह कः सम्बन्धः ? इत्यत्राह भाष्यकारःभाष्य-पढमे गुरुमास च, पायच्छित्त पकित्तियं ।
बीए उ लहुमासं च, पायच्छित्तं कहिस्सए ॥ छाया-गुरुमासिकं च प्रथमे, प्रायश्चित्तं प्रकीर्तितम् ।
द्वितीये तु लघुमासं च प्रायश्चित्तं कथयिष्यते ॥ अवचूरिः – पढमे' इत्यादि । तत्र प्रथमे-प्रथमोद्देशके हस्तकर्माद्यारभ्य पूतिकर्माहारपर्यन्तेषु दोषेषु 'गुरुमासं' गुरुमासिकं प्रायश्चित्तं कथितम् । द्वितीये-द्वितीयोदेशके तु 'लहमासं' लधुमासिकं प्रायश्चित्तं कथयिष्यते । यद्वा-गुरु- इति पदं सापेक्षम् तच्च-लघुकमपेक्षतेऽतोऽत्रोदेशके लघुप्रायश्चित्तं कथयिष्यते । अयमेव संबंधः पूर्वापरोद्देशकीयसूत्राणाम् । अथवा-प्रथमोद्देशकचरमसूत्रस्थभाष्ये उपकरणपूतिकं कथितम् , इह च द्वितीयोद्देशकस्य प्रथमसूत्रे तदेवोपकरणं किम् ? इति कथयिष्यते, अयमेव संबन्धः पूर्वापरसूत्रयोः । अथवा-प्रथमोद्देशकस्यादिसूत्रे हस्तकर्मादिव्यवहारो निषिद्धः, अत्रापि दारुदण्डक--पादपोंछनकरणं हस्तव्यवहार एवेति तन्निषेधः कथयिष्यते, अयमेव संबंधः पूर्वापरसूत्रयोर्भवति । अनेन संबन्धेनायातस्य द्वितीयोदेशकीयप्रथमसूत्रस्य व्याख्यानं प्रस्तूयते- 'जे भिक्खू' इत्यादि ।
सूत्रम्-जे भिक्खू दारुदंडयं पायपुंछणयं करेइ करेंतं वा साइज्जइ १ छाया-यो भिक्षुरुदंडकं पादपोंछनकं करोति कुर्वन्तं वा स्वदते ॥ सू० १॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित्- निरवभिक्षणशीलो भिक्षुः, अष्टविधकर्मणां क्षपणाय सर्वदा यतनावान् वा भिक्षुः 'दारुदंडयं पायपुंछणयं करेइ' दारुदण्डकं पादप्रोञ्छनकं करोति, तत्र दारु-काष्ठम् , तन्मयो दंडो यस्य तदारुदण्डकम्-तादृशं काष्ठदण्डमात्रयुक्तं निषद्याभिधवस्त्रवर्जितम् , एवंभूतं पादप्रोञ्छनकम् , अत्र 'पादप्रोञ्छन'-शब्देन रजोहरणं गृह्यते, एवरूपं निषद्यावस्त्रविवर्जितं रजोहरणं करोति कारयति 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते-अनुमोदते तस्य मासलघुकं प्रायश्चित्तं भवति, अतो रजोहरणदण्डं वस्त्रविवर्जितं स्वयं न कुर्यान्न वा कारयेत् तथा-कुर्वन्तमन्यं वा नाऽनुमोदेत, इति ॥ सू० १॥ भाष्यम्-दुविहं रयहरणं, उणियं च तहेयरं ।
उस्सग्गे पढमं गेझं, अपवाए य अण्णयं ॥
શ્રી નિશીથ સૂત્ર