________________
निशीथसूत्रे
भावपूतिकं च द्विप्रकारकं भवति सूक्ष्मं - बादरं च । तत्र - इन्धनं दारुकम्, तस्य धूमः - इन्धनधूमः, स चाssधाकर्मिके भोजने रध्यमाने लोकानां घ्राणप्रदेशं स्पृशति तेन छिवका जायते, ततः सर्व पूतिकं भवति । गन्धपुद्गलैर्वा छिक्का भवति ततः सर्व पूतिकं भवति । धूमगन्धवर्जितैः सूक्ष्मावयवैश्छिक्का, ततः सर्व पूतिकं भवतीत्येतत् सूक्ष्मं पूतिकम् ।
अथवा -
1
३२
बादरं त्रिप्रकारं भवति आहारे, उपधौ, शय्यायां च । तत्राहारपूतिकं चतुर्विधम् अशनादिभेदात् । आधाकर्मिकाद्याहारकणेनापि संसृष्टमाहारजातमाहारपूतिकम् १ | उपधिपूतिकं द्विप्रकारकम् - वस्त्रे पात्रे च । तत्र वस्त्रं जांगिकादिपञ्चप्रकारकभेदात् पञ्चविधम् । पात्रम् - अलाबूदारु- मृत्तिकाभेदात् त्रिविधं ग्राह्यम् । धातुनिर्मितं सम्प्रतिकालप्रसिद्धं सेलोलाइटादिनिर्मितं सर्वमग्राह्यम् । ततश्च पात्रपूतिकमपि त्रिविधम् । तत्र वस्त्रे - आघाकर्मकृतेन सूत्रेण सीव्यति, थिग्गलं वा ददाति । पात्रेऽपि - आधाकर्मकृतेन सूत्रेण सीव्यति - संयोजयति थिग्गलं वा ददाति । वसतिपूर्ति - कम्-शुद्धवसतौ आधाकर्मिक वंशकाष्ठप्रस्तरा दिसंमेलनम् । यथा - वसतिनिर्माणे षट् ठ प्राशुकानि सप्तमं किमपि वास्तुद्रव्यं चाssधाकर्मिकं संयोजितं भवेत्तद् वसतिपूतिकं कथ्यते । विशेषतो यथाशास्त्रं ज्ञातव्यम् ॥ सू० ६० ॥
इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्ध वाचक - पञ्चदशभाषाकलित ललितकला पालापकप्रविशुद्धगद्यपद्यनैकग्रन्थिनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुरराजप्रदत्त“जैनशास्त्राचार्य”–पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि-जैनाचार्य-जैनधर्म - दिवाकर - पूज्यश्री - घासीलालवति - विरचितायां "निशीथसूत्रस्य " चूर्णि भाष्यावचूरिरूपायां व्याख्यायां प्रथम उद्देशकः समाप्तः ॥१॥
શ્રી નિશીથ સૂત્ર