________________
चूर्णिभाष्यावचूरिः उ० १ सू० ५७-६० वस्त्रगृहधूमपूतिकर्मप्रकरणम् २९ 'गंठतं वा साइज्जइ' प्रथ्नन्तं वा स्वदतेऽनुमोदते स आज्ञाभङ्गादिदोषात्प्राग्वत् प्रायश्चित्तभाग्भवति ॥ सू० ५६॥ सूत्रम्--जे भिक्खू वत्थं अतज्जाएणं गंठेइ गंठेतं वा साइज्जइ ॥ ५७॥
छाया-यो भिक्षुर्वस्त्रमतज्जातेन प्रथ्नाति प्रथ्नन्तं वा स्वदते ॥ सू० ५७ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'वत्थं' वस्त्रं चोलपट्टादिकम्, स्फाटितं संघातुम् 'अतज्जाएणं' अतज्जातेन, जातिमतिक्रम्य यद् भवति तद् अतज्जातम् अन्यजातीयम् तेन विभिन्नजातिकेन दवरकेण 'गंठेइ' प्रथ्नाति-सीवनादिकं करोति, कारयति 'गंठेतं वा साइज्जइ' प्रथ्नन्तं वा स्वदतेऽनुमोदते स आज्ञाभङ्गादिदोषान् प्राप्नुवन् प्रायश्चित्तभागिति पूर्ववत् ।। सू० ५७॥
सूत्रम्-जे भिक्खू अइरेगगहियं वत्थं परं दिवड्डाओ मासाओ धरेइ धरतं वा साइज्जइ ।। सू० ५८ ॥
__ छाया-यो भिक्षुः अतिरेकगृहीतं वस्त्रं परं द्वयर्धात् मासात् धरति धरन्तं वा स्वदते ॥ सू० ५८॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अइरेगगहियं वत्थं' अतिरेकगृहीतं वस्त्रम् श्रमणानां यादृशी वस्त्रग्रहणव्यवस्था, यादृयी वा संख्या, ततोऽधिकवस्त्रस्य कोऽपि ग्रहणं करोति । प्रमाणव्यवस्थातोऽधिकं यद् गृहीतं वस्त्रं तत् यदि 'परं दिवड्डाओ मासाओ धरेइ' परमधिकं द्वयर्धमासात्-अर्धाधिकैकमासात् , साधैंकमासात् परमधिकं कालमपि धरति, स्वसमीपे स्थापयति 'धरेंतं वा साइज्जई' धरन्तं वा स्वदतेऽनुमोदते स आज्ञाभङ्गादिदोषधारी प्रायश्चित्तभाग्भवति ॥ सू० ५८॥
अत्राह भाष्यकारः- 'अवलक्खणाइ०' इत्यादि । भाष्यम्-अवलक्खणाइजुत्त-दुग-तिग-अइरेग-गंठियं वत्थं, ।
धरइ य दिवड्ढमासा, अहियं जो दोसभाई सो॥ छाया-अपलक्षणादियुक्तं--द्विक-त्रिकाऽतिरेकग्रथितं वस्त्रम् ।
धरति च द्वयर्धमासाद् अधिकं स दोषभागी सः ॥ अवचूरिः -यो भिक्षुः अपलक्षणादियुक्तम्-त्रिकोणाद्यलक्षणयुक्तम् । आदिशब्दात्तथाविधान्यापलक्षणयुक्तं वा यथा एकग्रन्थियुक्तं, ग्रन्थिद्वययुक्तं, प्रन्थित्रययुक्तं तदधिकप्रन्थियुक्तं वा, यत्समा
શ્રી નિશીથ સૂત્ર