________________
निशीथसूत्रे सूत्रम्--जे भिक्खू वत्थस्स परं तिण्हं फलियगंठियाणं करेइ करत वा साइज्जइ ॥ सू० ५३ ॥ ____ छाया-यो भिक्षुर्वस्त्रस्य परं त्रयाणां फलिकाग्रन्थिकानां करोति कुर्वन्तं वा स्वदते ॥ सू० ५३॥
__चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'वत्थस्स' वस्त्रस्य-प्रावरणवस्त्रादेः, 'परं तिण्हं' परं त्रयाणाम् ‘फलियगंठियाणं' फलिकाग्रन्थिकानां 'करेइ' करोति स्वयं संपादयति, कारयति 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागिति प्राग्वत् । अतः फलिकात्रयादधिकं फलिकाग्रन्थनं न विधेयम् ॥ सू० ५३ ॥
सूत्रम्-जे भिक्खू वत्थस्स एगं विफलियं गंठियं देइ देयंत वा साइज्जइ ॥ सू० ५४ ॥
छाया-यो भिक्षुः वस्त्रस्यैकां विफलिकां ग्रन्थिकां ददाति ददतं वा स्वदते सू०५४॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'वत्थस्स' वस्त्रस्य 'एगं विफलियं गंठियं' एकां विफलिकाम्-फलिकारहितां ग्रन्थिकां 'देइ' ददाति-वस्त्रान्तभागेन सह ग्रन्थिकां युनक्ति दापयति, योजयति अन्यद्वारा, 'देयंतं वा साइज्जई' ददतं वा स्वदतेऽनुमोदते तस्याज्ञाभङ्गाऽनवस्थामिथ्यात्वसंयमविराधनादयो दोषा भवन्तीति सुगमम् ॥ सू० ५४ ॥
सूत्रम्--जे भिक्खू वत्थस्स परं तिण्हं विफलियगंठियाणं देइ देयंतं वा साइज्जइ ॥ सू० ५५॥
छाया-यो भिक्षुर्वस्त्रस्य परं त्रयाणां विफलिकग्रन्थिकानां ददाति ददतं वा स्वदते ॥ सू० ५५॥
चूर्णी--'जे भिक्ख' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'वत्थस्स' वस्त्रस्य 'परं तिण्हं' परं त्रयाणाम्-त्रयाणां परमधिकम् 'विफालियगंठियाणं देइ' विफलिकग्रन्थिकानां ददाति दापयति, 'देयंतं बा साइज्जइ' ददतं वा स्वदतेऽनुमोदते स आज्ञाभङ्गदोषात्प्रायश्चित्तभागिति सरलोऽर्थः ॥ सू० ५५ ॥
सूत्रम्--जे भिक्खू वत्थं अविहीए गंठइ गंठतं वा साइज्जइ ॥ ५६ ॥ छाया-यो भिक्षुर्वस्त्रमविधिना प्रश्नाति प्रथ्नन्तं वा स्वदते ॥ सू० ५६ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'वत्थं' वत्रं-चोलपट्टादिकम् 'अविहीए' अविधिना-विधिमुल्लय 'गंठइ' प्रथ्नाति अविधिपूर्वकं ग्रन्थि ददाति-दापयति,
શ્રી નિશીથ સૂત્ર