SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका जम्बूवर्णन अथ सूत्रकारो जम्बूखामिनं विशिनष्टि-'समचतुरे' त्यादिना, समा:तुल्याः अन्यूनाधिकाः चतस्रोऽस्रयो हस्तपादोपर्यधोरूपाश्चत्वारोऽपि विभागाः (शुभलक्षणोपेताः) यस्य (संस्थानस्य) तत् समचतुरस्र-तुल्यारोहपरिणाहं, तच्च संस्थानम्-आकारविशेषः इति समचतुरस्रसंस्थानं, तेन संस्थितम् समचतुरस्रसंस्थानसंस्थितः । जाव-(यावत् )-शब्देन 'सत्तुस्सेहे वजरिसहनारायसंघयणे, कणग-पुलग-निघसपम्हगोरे' तथा-'उग्गतवे, तत्ततवे, दित्ततवे, उराले, घोरे, घोरव्वये, संखित्तविउलतेउलेस्से' एतेषां सङ्ग्रहः । एतच्छाया-'सप्तोत्सेधः, वज्रऋषभ-नाराचसंहननः, कनकपुलकनिकषपद्मगौरः, तथा-उग्रतपाः, तप्ततपाः, दीप्ततपाः, उदारः, घोरः, घोरव्रतः, संक्षिप्तविपुलतेजोलेश्यः । तत्र 'सप्तोत्सेध' इति सप्तहस्तोच्छ्रया=सप्तहस्तपमितोच्छृितदेहः । 'वजे' त्यादि-वत्रं-कीलिकाकारमस्थि, ऋषभः तदुपरिपरिवेष्टनपट्टाकृतिकोऽस्थिविशेषः, नाराचम्-उभयतो मर्कटबन्धः, तथा च-द्वयोरस्भोरुभयतो मर्कटबन्धनेन बद्धयोः पट्टाकृतिना तृतीयेनाऽस्था परिवेष्टितयोरुपरि तदस्थित्रयं पुनरपि दृढीकर्तु तत्र निखातं कीलिकाकारं वज्रनामकमस्थि यत्र भवति तद् वज्रऋषभनाराचम् , तत् संहननं-संहन्यन्ते-दृढीक्रियन्ते शरीरपुद्गला येन तत् संहननम् अस्थिनिचयो यस्य स वऋषभनाराचसंहननः । सूत्रकार फिर जम्बू स्वामीका वर्णन करते हैं - जो समचतुरस संस्थानवाले थे, जिनके शरीरकी अवगाहना सात (७) हाथकी थी, वज्रऋषभनाराच संहननके धारी थे, સૂત્રકાર વળી જંબૂ સ્વામીનું વર્ણન કરે છે – જે સમરસ સંસ્થાનવાળા હતા, જેના શરીરની અવગાહના સાત(૭)હાથની હતી, વજ બાષભનારાચ સંઘયણવાળા હતા, શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy