SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २४६ __३ पुष्पितासूत्र दिलाभार्थ रूप्यादीनामधमर्णादिभ्यो नियोजनमायोगस्तस्य, प्र-प्रकर्षण योजनम् उपायचिन्तनं प्रयोगः, यद्वा-आयोगेन द्विगुणादिलिप्सया प्रयोगा= अधमर्णानां सविधे द्रव्यस्य वितरणमायोगप्रयोगः, स संप्रयुक्तः प्रवर्तितो येन, तस्मिन् वा संप्रयुक्तः संलग्नो यः स आयोगप्रयोगसंप्रयुक्तः नीत्या द्रव्योपाजनप्रवृत्त इत्यर्थः । भक्तं च पानं च भक्तपाने, विपुले च ते भक्तपाने विपुलभक्तपाने, वि-विशेषेण छर्दिते-भोजनावशिष्टे भक्तपाने यस्य स विच्छदितविपुलभक्तपानः, दीनेभ्यो दीयमानविपुलभक्तपान इत्यर्थः । दास्यश्च दासाश्च गावश्च महिषाश्च गवेलकाः उरभ्राश्चेति दासीदासगोमहिषगवेलकाः, बहवश्च ते दासीदासगोमहिषगवेलका इति बहुदासीदासगोमहिषगवेलकास्ते प्रभूताः प्रचुरा यस्य स बहुदासीदासगोमहिषगवेलकप्रभूतः, अत्र गवादिपदं स्त्रीगवादीनामप्युपलक्षकं, यद्वा-गोपदस्य-खीपुंगवयोरविशेषेण वाचकवादविरोध एव, महिष-गवेलक-शब्दयोश्च 'पुमान् स्त्रिया' इत्येकशेषान्महिष्यादीनामपि ग्रहणम् । बहुजनस्येति जातिविवक्षयैकवचनं, संबन्धसामान्ये च षष्ठी, तेन 'बहुजनै '-रित्यर्थों बोद्धव्यः, अत्र ‘अपी' त्यस्याध्याहाराद्वहुजनैरपीति तत्त्वम् , अपरिभूता-तत्पराभवरहितः, यद्वा-क्त प्रत्ययार्थस्याऽविवक्षितत्वादपरिभवनीयः-बहुजनैरपि पराभवितुमशक्य इत्यर्थः । जाता था। उसके यहाँ दास दासिया बहुतसी थीं और बहुतसे गाय, भैंस, भेडें थीं। तथा वह अपरिभूत-प्रभावशाली था, यानी उसका कोई पराभव नहीं कर शकता था। આપી દેવાતો હતો. તેને ત્યાં દાસ દાસીઓ ઘણાં હતાં. તથા ગાય ભેંસ ભેડાં પણ બહુ હતાં. વળી તે અપરિભૂત-પ્રભાવશાળી હતો અર્થાત તેને કઈ પરાભવ કરી શકતો નહોતે. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy