SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ - १७२ ____ निरयावलिका सूत्र गता आन्दोलयति, अप्येकिकाः दन्तान्तरेषु नयति, अप्येकिकाः शीकरण स्नपयति, अप्येकिका अनेकैः क्रीडनकैः क्रीडयति । ततः खलु चम्पायां नगर्यो शृङ्गाटक-त्रिक-चतुष्क-चबर-महापथ-पयेषु बहुजनोऽन्योऽन्यस्य एवमाख्याति यावत् प्ररूपयति-एवं खलु देवानुपियाः ! वैहल्ल्यः कुमारः सेचनकेन गन्धहस्तिनाऽन्तःपुर० तदेव यावद् अनेकैः क्रीडनकैः क्रीडयति तदेष खलु वैहल्ल्यः कुमारो राज्यश्रीफलं प्रत्यनुभवन् विहरति, नो कूणिको राजा । ततः खलु तस्याः पद्मावत्या देव्या अस्याः कथायाः लब्धार्थायाः सत्या अयमेतद्रूपो यावत् समुदपद्यत-'एवं खलु वैहल्ल्यः कुमारः सेचनकेन गन्धहस्तिना यावद् अनेकैः क्रीडनकैः क्रीडयति तदेष खलु वैहल्ल्यः कुमारो राज्यश्रीफलं प्रत्यनुभवन् विहरति नो कूणिको राजा, तत्किमस्माकं राज्येन वा यावज्जनपदेन वा यदि खलु अस्माकं सेचनको गन्धहस्ती नास्ति ?, तच्छ्रेयः खलु मम कूणिकं राजानमेतमर्थ विज्ञपयितुम् । इति कृता एवं संपेक्षते, संप्रेक्ष्य यत्रैव कुणिको राजा तत्रैवोपागच्छति, उपागत्य करतल० यावदेवमवादीव-एवं खलु स्वामिन् ! वैहल्ल्यः कुमारः सेचनकेन गन्धहस्तिना यावद् अनेकैः क्रीडनकैः क्रीडयति, तल्कि खलु स्वामिन् ! अस्माकं राज्येन वा यावत् जनपदेन वा, यदि खलु अस्माकं सेचनको गन्धहस्ती नास्ति ? । ततः खलु स कूणिको राजा पद्मावत्या देव्या एतमथ नो आद्रियते, नो परिजानाति, तूष्णीकः संतिष्ठते । ततः खलु सा पद्यावती देवी अभीक्ष्णं२ कुणिक राजानमेतमयं विज्ञपयति । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy