SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २६ मासपरिसमापकनक्षत्रनिरूपणम् ४२३ होरात्राणि नयति, श्रवणोऽष्टाहोरात्राणि नयति, धनिष्ठा एकमहोरात्रं नयति, तस्मिंश्च खलु मासे चतुरगुलपौरुष्या छायया सूर्योऽनुपर्यटति, तस्य च खलु मासस्य चरमे दिवसे द्वे पदे चत्वारि चाइगुलानि पौरुषी भवति । वर्षाणां खलु भदन्त ! द्वितीयं मासं कति नक्षत्राणि नयन्ति ? हे गौतम ! चत्वारि, धनिष्टा शतनिषक पूर्वभाद्रपदा, उत्तरभद्रपदा, धनिष्ठा खलु चतुर्दशाहोरात्रान् नयति शतभिषक सप्ताहोरात्रान् नयति पूर्वभद्रपदा अष्टाहोरात्रान् नयति, उत्तरभद्रपदा एकम्, तस्मिंश्च खलु मासे अष्टाङ्गुलपौरुष्या छायया सर्यो ऽनुपर्यटति, तस्य मासस्य चरमे दिवसे द्वे पदे अष्टौ चागुलानि पौरुषी भवति । वर्षाणां खलु भदन्त ! तृतीयं मास कति नक्षत्राणि नयन्ति गौतम! त्रीणि नक्षत्राणि नयन्ति तद्यथाउत्तरभद्रपदा रेवती अश्विनी, उत्तरभद्रपदा तुर्दशरात्रिंदिवानि नयति, रेवती पञ्चदश अश्विनी एकम्, तस्मिंश्च खलु मासे द्वादशाङ्गुलपौरुष्या छायया सूर्योऽनुपर्यटति, तस्य खलु मासस्य चरमे दिवसे रेखास्थानि त्रीणि पदानि पौरुषी भवति । वर्षाणां खलु भदन्त ! चतुर्थ मास कति नक्षत्राणि नयन्ति ? गौतम ! त्रीणि-अश्विनी भरणी कृत्तिका, अश्विनी चतुर्दश, भरणी पश्चदश, कृत्तिका एकम्, तस्मिंश्च खलु मासे षोडशाङ्गुलपौरुष्या छायया सूर्याऽनुपर्यटते तस्य च खलु मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि अङ्गुलानि पौरुषी भवति हेमन्तानां खलु भदन्त ! प्रथम मास कति नक्षत्राणि नयन्ति गौतम! त्रीणि कृत्तिका रोहिणी मृगशिरः, कृत्तिका चतुर्दश रोहिणी पञ्चदश, मृगशिर एकमहोरात्रम्, नयति, तस्मिंश्च खलु मासे विंशत्यङ्गुलपौरुष्या छायया सूर्योऽनुपर्यटते तस्य खलु मासस्य योऽसौ चरमो दिवस स्तस्मिन् खलु दिवसे त्रीणि, पदानि अष्टौ चागुलानि पौरुषी भवति । हेमन्तानां खल भदन्त ! द्वितीयं मास कतिनक्षत्राणि नयन्ति ? गौतम ! चत्वारि नक्षत्राणि नयन्ति तद्यथा मृगशिर आदी पुनर्वसू पुष्यो । मृगशिर चतुर्दश रात्रिदिवानि, पुष्य एकं रात्रिदिवं नयति, तदा खलु चतुर्विशत्यङ्गुलपौरुज्या छायया सूर्योऽनुपर्यटते, तस्य खलु मासस्य योऽसौ चरमो दिवस स्तस्मिंश्च दिवसे रेखास्थानि चत्वारि पदानि पौरुषी भवति । हेमन्तानां खलु भदन्त ! तृतीयं मास कति नक्षत्राणि नयन्ति ? गौतम ! त्रीणि, पुष्योऽश्लेषा मघा, पुष्य श्चतुर्दश रात्रिंदिवानि नयति, अश्लेवा पञ्चदश, मघा एकम् तदा खलु विंशत्यगुलपौरुष्या छायया सूर्योऽनुपर्यटते तस्य खलु मासस्य योऽसौ चरमो दिवसः तस्मिंश्च खलु दिवसे त्रीणि पदानि अष्टाङ्गुलानि पौरुषी भवति हेमन्तानां खलु भदन्त ! चतुर्थ मास कतिनक्षत्राणि नयन्ति ? गौतम! त्रीणि, तद्यथा मघा पूर्वाफलगुनी उत्तराफग्गुणी मघा चतुर्दशरात्रि दिवानि, नयति-पूर्वाफाल्गुनी पञ्चदश रात्रिंदिवानि नयति, उत्तराफाल्गुनी एकं रात्रिंदिवं नयति तदा खलु षोडशाङ्गुलपौरुष्या छायया सूर्योऽनुपर्यटते तस्य खल मासस्य योऽसौ चरमो दिवस स्तम्मिश्च खलु दिवसे त्रीणि पदानि चत्वारि चागुलानि पौरुषी भवति । ग्रीष्माणां भदन्त ! प्रथमं मास कतिनक्षत्राणि नयन्ति ? गौतम ! त्रीणि नक्षत्राणि नयन्ति, उत्तराफाल्गुनी हस्तश्चित्रा, उत्तराफाल्गुनी चतुर्दश रात्रिदिवानि नयति, જદીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy