SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे शेषाधिकानि परिक्षेपेण । अभ्यन्तरानन्तरं खलु भदन्त ! सूर्यमण्डलं कियदायाम विष्कमाभ्यां कियत्परिक्षेपेण प्रज्ञप्तम् गौतम ! नवनवति योजनसहस्राणि षट्च पंचचत्वारिंशत् योजना शतानि पंचत्रिशत् चैकषष्ठिभागान् योजनस्यायामविष्कंभाभ्याम् त्रीणि योजनशतसहस्राणि पंचदशच योजनसहस्राणि एक सप्तोत्तरं योजनशतं परिक्षेपेण प्रज्ञप्तम् । अभ्यन्तरतृतीयं खलु भदन्त ! सूर्यमंडलं कियदायामविष्कभाभ्यां कियत्परिक्षेपेण प्रज्ञप्तम् गौतम ! नव नवतियोजनसहस्राणि षट्चैक पंचाशत् योजनशतानि नवचैकपष्टिभागान् योजनस्यायामविष्कभाभ्याम् त्रीणि च योजनशतसहस्राणि पंचदशयोजनसहस्राणि एकं च पंचविंशति यो जनशतं परिक्षेपेण । एवं खलु एतेनोपायेन निष्कामन् सूर्यः तदनतरात मंडलात् तदनन्तरं मण्डलमुपसंक्रामन् उपसंक्रामन् पंच पंचयोजनानि पंचत्रिंशच्चैकष ष्ठभागान योजनस्यैकैकस्मिन् मण्डले विष्कमबुद्धिमभिवर्द्धयन् अभिवर्द्धयन् अष्टादश ष्टादश योजनानि परिश्यबुद्धिमभिवर्द्धयन् अभिवर्द्धयन् सर्वबाह्य मंडलमुपसंक्रम्य चारं चरति । सर्वबाचं खलु भदन्त ! सूर्यमंडलं कियदायामविष्कंभाभ्यां कियता परिक्षेपेण प्रज्ञप्तम ? गौतम ! एकं योजनशतसहस्रं षट्व षष्ठियोजनशतानि आयामविष्कंभाभ्याम् त्रीणि च योजनशतसहस्राणि अष्टादश च योजनसहस्राणि त्रीणि च पंचदशोत्तर योजनशतानि परिक्षेपेण प्रज्ञप्तं । बाबानन्तरं च खल भदन्त सूर्यमंडलं कियदायामविष्कंभाभ्यां कियता परिक्षेपेण प्रज्ञप्तम् गौतम ! एकं योजनशतसहस्र षट् च चतुः पश्चाशत् योजनशतानि षइविशं चैकषष्ठिभागान् योजनस्यायामविष्कंभाभ्याम् त्रीणि च योजनशतसहस्राणि अष्टादश च सहस्राणि द्वे च सप्त नवति योजनशते परिक्षेपेणेति । बाह्यतृतीयं खलु भदन्त ! सूर्यमण्डलं कियदायामविष्कभाभ्यां कियता परिक्षेपेण प्रज्ञप्तम् गौतम ! एकं योजनशतसहस्रम् पट् चाष्टाचत्वारिंशत् योजनशतानि द्विपञ्चाशच्चैकपष्टिभागान योजनस्यायामविष्कंभाभ्याम् त्रीणिच योजनशतसहस्राणि अष्टादशय सहस्राणि द्वे चैकोन नवति योजनशते परिक्षेपेण प्रज्ञप्तम् एवं खलु एतेनोपायेन प्रविशन् सूर्यः तदनन्तरात् मंडलात् तदनन्तरम् मंडलम् संक्रामन् संक्रामन पंच पंच योजनानि पंचत्रिशच्चैक पष्ठिभागान् योजनस्यैकै कस्मिन् मंडलं विष्कंभबुद्धिं निवृद्धयन् निवृद्धयन् अष्टादशाष्टादशयोजनानि परिरयवृद्धि निवर्द्धयन् निवर्द्धयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति । सू०४॥ टीका-संप्रत्यायामविष्कमद्वारमाह-जंबूद्दीवेणमित्यादि, 'जंबुद्दोवे णं भंते सव्य तरे सूरमंडले' जम्बूद्वीपे खलु भदन्त ! द्वोपे सर्वाम्यन्तरम् सर्वेभ्योऽभ्यन्तरं सूर्यमण्डलम् 'केवइयं' आयामविक्खंभेणं' कियदायामविष्कभाभ्याम् तथा 'केवइयं परिक्खेवेणं पन्नते' कियता मण्डलायामादिवृद्धि हानिद्वार कथन 'जंबुद्दीवे दीवे सव्वभंतरेणं भंते ! सूरमंडले' इत्यादि મંડેલાયામાદિ વૃદ્ધિ હાનિકાર કથન'जंबुद्दीवे दीवे सव्वभंतरेणं भंते ! सूरमडले' इत्यादि જદીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy