SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १० अच्युतेन्द्रकृततीर्थकराभिषेकादिनिरूपणम् ६९७ कमलप्रतिष्ठानैः मुरभिवरवारिप्रतिपूर्णैः चन्दनकृतचर्चितैः आविद्धकण्ठगुणैः पोत्पलपिधानः करतलसुकुमार परिगृहीतः, अष्ट सहस्रेण सौवर्णिकानां कलशानां यावत् अष्टसह स्त्रेण भौमेयानां यावत् सर्वोदकैः सर्वमृतिकाभिः सर्वतुवरैर्यावत् सौंषधिसिद्धार्थकैः सर्वद्धर्या यावत् रवेण महता महता तीर्थंकराभिषेकेण अभिषिञ्च ति, ततः खलु महता महता आभिषेके वर्तमाने इन्द्रदिकाः देवाः छत्रचामर धूपकडुच्छुकपुष्पगन्ध यावत् हस्तगताः हृष्टतुष्ट, यावत् वज्रशूलपाणयः पुरतस्तिष्ठन्ति प्राञ्जलिकृता इत्यर्थः । एवं विजयानुसारेण यावत् अप्येककदेवाः आसिक्त संमार्जितोपलिप्तसिक्त शुचीसम्मृष्ट रथ्याऽन्तराऽऽपणवीथिकं कुर्वन्ति यावद् गन्धवर्तिभूतमिति, अप्येककाः हिरण्यवर्षे वर्षन्ति, एवं सुवर्णरत्नवज्राऽऽभरणपत्रपुष्पबीजमाल्यगन्धवर्षा यावत् चूर्णवर्षे वर्षन्ति, अप्येककाः, हिरण्यविधि भाजयन्ति एवं यावत् चूर्णवीधि भाजयन्ति, अप्येककाः चतुर्विधं वाद्यं वादयन्ति, तद्यथा ततम् १ विततम् २ घनम् ३ सुषिरम् ४ अप्येके, चतुविधं गेयं गायन्ति तद्यथा उत्क्षिप्तम् १ पादात्तम् २ मन्दायम् ३ रोचितावसानम् ४ अप्येककाः चतुर्विधं नाटयं नृत्यन्ति तद्यथा-अश्चितम् १ द्रुतम् २ आरभटम् ३ भसोलम् ४ इति अप्येककाः चतुर्विधम् अभिनयम् अभिनयन्ति तद्यथा दाटीन्तिकम् १ प्रतिश्रुतिकम् २ सामान्यतो विनिपातिकम् ३ लोकमध्यावसानिकम् ४ अप्येके द्वात्रिंशद्विधं दिव्यं नाटयविधिमुपदर्शयन्ति, अप्येककाः उत्पातनिपातम् निपातोत्पातम् संकुचित प्रसारितम् यावत् भ्रान्तसंभ्रान्तनामकं दिव्यं नाटयविधिमुपदर्शयन्तीति । अप्येककाः विनयन्ति एवं वृत्कारयन्ति आस्फोटयन्ति वलन्ति सिंहानादं नदन्ति अप्येककाः सर्वाणि कुर्वन्ति अप्येककाः हय हेषितं एवं गुलगुलायितं रथघनघनायितम् अप्येककाः त्रीण्यपि अप्येककाः 'उच्छोलंति' अग्रतो मुखे चपेटां ददति, पच्छोलंति' पृष्टतो मुखे चपेटां ददंति अप्येककाः त्रिपदीं छिन्दन्ति पाददईरकं कुर्वन्ति भूमिचपेटां ददति अप्येककाः महता महता शब्देन रावयन्ति एवं संयोगाः विभाषितव्याः अध्येकका 'हकारयन्ति' एवं पूत्कुर्वन्ति वक्कारयन्ति अवपतन्ति उत्पतन्ति परिपतन्ति ज्वलन्ति तपन्ति प्रतपन्ति गर्जन्ति विद्युतं कुर्वन्ति वर्षन्ति अप्येककाः देवोत्कलिकां कुर्वन्ति एवं देवकह कहकं कुर्वन्ति, अप्येककाः दुहु दुहुकं कुर्वन्ति, अप्येककाः विकृतभूतादि रूपाणि विकुर्वित्वा प्रनृत्यन्ति एवमादि विभाषेत यथा विजयस्य यावत् सर्वतः समन्तात् ईषद्धावन्ति परिधावन्ति इति ॥ सू० १०॥ टीका-'तएणं से अच्चुए देविदे' ततः आभियोगिक देवैः आनीताभिषेकसामय्याः, उपस्थित्यनन्तरम् खलु सोऽच्युतो देवेन्द्रः तीर्थकरमभिषिञ्चतीत्यग्रे सम्बन्धः कैः सार्द्ध 'तए ण से अच्चुए देविंदे दसहिं सामाणिय'-इत्यादि टीकार्थ-इसके बाद-जब अभिषेक योग्य सब सामग्री उपस्थित हो चुकी'तहणं से अच्चुए देविंदे दसहिं सामाणिय' इत्यादि । ટીકાર્થ–ત્યાર બાદ જ્યારે અભિષેક એગ્ય બધી સામગ્રી ઉપસ્થિત થઈ ગઈ ત્યારે ज० ८८ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy