SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू.५ पालकदेवेन शक्रज्ञानुसारेण विकुर्वणादिकम् ६३३ पुरस्थिमेणं एत्थ णं सकस्स चउरासीए सामाणियसाहस्सीणं चउरासीइ भद्दासणसाहस्सीओ, पुरस्थिमेणं अटण्हं अग्गमहिसीणं एवं दाहिण पुरस्थिमेणं अभितरपरिसाए दुवालसण्हं देवसाहस्सीणं दाहिणणं दाहिणेयं मज्झिमाए चउदसण्हं देवसाहस्सीणं,दाहिणपञ्चत्थिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं पञ्चत्थिमेणं सत्तण्हं अणिआहिवईणं त्ति आयरक्खदेवसाहस्सीणं एवमाई विभासिअव्वं सरिआभगमेणं जाव पच्चप्पिणंति ति ॥ सू. ५॥ छाया-ततः खलु पालको देवः शक्रेण देवेन्द्रेण देवराजेन एवमुक्तः सन् हृष्ट तुष्ट यावत् वैक्रियसमुद्घातेन समवहत्य तथैव करोति, इति तस्य खलु दिव्यस्य यानविमानस्य त्रिदिशि त्रिसोपानप्रतिरूपकाः वर्णकः 'तेषां खलु प्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणा यावत् प्रतिरूपा १' तस्य खलु यानविमानस्य अन्तः बहुसमरमणीयो भूमिभागः स यथा नाम आलिङ्गपुष्कर इति या यावत् दीपितचर्मइति वा, अनेकशंकुकीलकसहस्रवितते, आवर्तप्रत्यावर्तथेणि प्रश्रेणि सुस्थितसौवस्थिकवर्धमान पुष्यमानक मस्यण्डकमकरण्डकजारमार पुष्पावली पद्मपत्र सागरतरङ्ग वासन्तीलतापद्मलताभक्तिचित्रैः सच्छायैः सप्रभैः समरीचिकैः सोद्योतः नानाविधपञ्चवर्णेः मणिभिः उपशोभितः २' तेषां खलु माणीनां वर्णो गन्धः मध्यदेशभागे प्रेक्षागृहमण्डपः अनेकस्तम्भशतसन्निविष्टे वर्णको यावत्प्रतिरूपः । तस्योल्लोक: पद्मलता भक्तिचित्रो यावत्सर्वतपनीयमयः यावत्प्रतिरूपः । तस्य खलु मण्डपस्य बहुसमरमणी. यस्य बहुमध्यदेशभागे महती एका मणिपीठिका अष्ट योजनानि आयामविष्कम्भेण चत्वारि योजनानि बाहल्येन सर्वमणिमयीवर्णकः, तस्या उपरि मह देकं सिंहासनम् वर्णकः तस्योपरि महदेकं विजयदृष्यं सर्वरत्नमयम् वर्णकः, तस्य मध्यदेशभागे एको वज्रमयः अंकुशः, अत्र खलु महान् एकः कुम्भिको मुकादामः, स खलु अन्यैः तदर्द्ध चतुः प्रमाणमितैश्चतुर्भिरर्द्धकुम्भिकैः, मुक्तादामभिः सर्वतः समन्तात् संपरिक्षिप्तः, ते खलु दामानः तपनीयलंबूपकाः सुवर्णपत्रकमण्डिताः नानामणिरत्न विविधहाराहारोपशोभिताः समुदयाः अन्योन्यमसंप्राप्ताः पूर्वादिकैः वातैः मन्दमेजमाना एजमाना यावत निवृत्तिकरेण शब्देन तान् प्रदेशान् आपूर्यमाणा आपूर्यमाणाः यावदतीवोपशोभमाना, उपशोभमानास्तिष्ठन्तीति, तस्य खलु सिंहासनस्य अपरोत्तरेण उत्तरेण उत्तरपौरस्त्येन अत्र खलु शकस्य चतुरशीतेः सामानिकसहस्राणां चतुरशीतिः भद्रासनसहस्राणि पौरस्त्येन अष्टानामग्रमहीषीणाम्, एवं दक्षिणपौरस्त्येन आभ्यन्तरपरिषदो द्वादशानां देवसहस्राणां दाक्षिणात्येन मध्यमायाः चतुर्दशानां देवसहस्राणां दक्षिणपाश्चात्येन बाह्यपरिषदः षोडशानां देवसहस्राणां पाश्चात्येन सप्तानाम् अनीकाधिपतीनाम् इति, ततः खलु तस्य सिंहासनस्य चतुर्दिशि चतसृणां चतुरशीतीनामात्मरक्षकदेवसहस्राणाम् एवमादि विभाषितव्यम् ज० ८० જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy