SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ६०९ प्रकाशिका टीका-पश्चमवक्षस्कार: सू. ४ इन्द्रकृत्यावसरनिरूपणम् सर्व सर्वद्युत्या सर्ववलेन सर्वसमुदायेन सर्वादरेण सर्वविभूत्या सर्वविभूषया सर्वसंभ्रमेण सर्वनाटकैः सर्वोपरोधैः सर्वपुष्पगन्धमाल्यालङ्कार विभूषया सर्वादिव्यत्रुटितशब्दसन्निनादेन महत्या ऋद्धया यावत् रवेण निजकपरिवारसंपरिवृताः स्वकानि स्वकानि यानविमानवाहनानि दुरूढाः सन्तः अकालपरिहीणं शक्रस्य यावत् अन्तिके प्रादुर्भवत । ततः खलु स हरिगषी देवः पादात्यनीकाधिपतिः शक्रेण३ यावत् एवम् उक्तः सन् हृष्टतुष्ट यावत् एवं देवा ! इति आज्ञायाः विनयेन वचनं प्रतिशृणोति, प्रतिश्रुत्य शक्रस्य देवेन्द्रस्य देवराजस्य अन्तिकात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य यत्रैव सभायां सुधर्मायां मेघोघरसितगम्भीरमधु रतरशब्दां योजनपरिमण्डलां सुघोषां घण्टां तत्रैव उपागच्छति, उपागत्य तां मेघौवरसित गम्भीरमधुरतरशब्दां योजनपरिमण्डलां सुघोषां घंटों त्रिः कृत्वः उल्लालयति ततः खलु तस्यां मेघौघर सितगम्भीर• मधुरतरशब्दायां योजनपरिमण्डलायां सुघोषायां घण्टायां त्रिः कृत्वः उल्लालितायां सत्यां सौधर्मे कल्पे अन्येषु एकोनेषु द्वात्रिंशद्विमानावासशतसहस्त्रेषु अन्यानि एकोनानि द्वात्रिंशत् घण्टाशतसहस्त्राणि यमकसमकं कणकणारावं कर्तु प्रवृत्तानि अभवत् इति । ततः खलु सौधर्मः कल्पः प्रासादविमान निष्कुटा पतितशब्द समुत्थितघण्टा प्रतिश्रुतशतसहस्त्रसंकुलो जातश्चाप्यभूत् इति । ततः खलु तेषां सौधर्मकल्पवासिनां बहूनां वैमानिकानां देवानाञ्च देवीनां च एकान्तरतिप्रसक्तनित्यप्रमत्त विषयसुखमूर्च्छितानाम् सुस्वरघण्टार सित विपुल बोल पूरितचपल परिबोधने कृते सति घोषणकुतूहलदत्त कर्णैकाग्रचित्तोपयुक्तमानसानां सपदात्यनीकाधिपतिर्देवः तस्मिन् घण्टारवे निशान्त प्रतिशान्ते सति तत्र तत्र तस्मिन् तस्मिन् देशे महता महता शब्देन उद्घोषयन् उद्घोषयन् एवम् अवादीदिति । हन्त 1 श्रृण्वन्तु भवतो बहवः सौधर्मकल्पवासिनो वैमानिकदेवाः देव्यश्च सौधर्मकल्पपतेरिदं वचनं हितसुखायम्-आज्ञापयति खलु भो शक्रः तदेव यावत् अन्तिकं प्रादुर्भवत इति, ततश्च ते देवा देव्यश्च तमर्थं श्रुत्वा हृष्टतुष्ट यावत् हृदया ! अप्येककाः चन्दनप्रत्ययम् एवं पूजन प्रत्यम् सत्कारप्रत्ययम् सन्मानप्रत्ययम् जिनभक्तिरागेण अप्येककाः तत् जीतमेतत् एवमादि इत्यादिकं कृत्वा यावत् प्रादुर्भवन्ति इति । ततः खलु सः शक्रः देवेन्द्रो देवराजः तान् वैमानिकान् देवान् देवींच अकालरिहीनं चेव अन्तिकं प्रादुर्भवतः प्रादुर्भवन्तीश्च पश्यति दृष्ट्वा हृष्टः पालकं नाम आभियोगिकं देवं शब्दयति शब्दयित्वा एवमवादीत् क्षिप्रमेव भो ! देवानुप्रियाः अनेकस्तम्भशतसन्निविष्टं लीलास्थितशालभञ्जिकाकलितम् ईहामृगऋपभतुरगनरम कर विहगव्यालक किन्नररुरुशर भचामरकुञ्जरवनलतापघलताभक्तिचित्रम् स्तम्भोगतवज्रवेदिकापरिगताभिरामम् विद्याधरयमलयुगल यन्त्रयुक्तमिव अर्चिसहस्रमालिनीकम् रूपकसहस्त्रकलितंम् भास्यमानं बाभास्यमानं चक्षुलोचनलेश्यं सुखस्पर्श सश्रीकरूपं घण्टावलिकमधुरमनोहर सदृशम् शुभं कान्तं दर्शनीयम् मिममिसेन्तमणिरत्नघण्टिका जालपरिक्षिप्तम् योजन सहस्र विस्तीर्ण पञ्चशतोच्चं शीघ्रं त्वरितं जयनं निर्वाहि दिव्यम् यानविमानं विकुर्वस्व विकुर्व्य एताम् आज्ञप्तिकां प्रत्यर्पय ॥ सू० ४ ॥ ज ७७ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy