SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ६०८ जम्बूद्वीपप्रज्ञप्तिसूत्रे पत्यं कारयन् पालयन् महताहतगोतवादिततन्त्रोतलतालत्रुटितघनमृदङ्गपटुपटहवादितरवेण दीव्यान् भोगमोगान् भुञ्जानो विहरति । ततः खलु तस्य शक्रस्य देवेन्द्रस्य देवराज्ञः आसनं चलति, ततः खलु स शक्रो यावत् आसनं चलितं पश्यति, दृष्ट्वा अवपि प्रयुङ्क्ते प्रयुज्य भग वन्तं तीर्थङ्करम् अवधिना आभोगयति आभोग्य हृष्टतुष्टचित्त आनन्दितः प्रीतिमनाः परम. सौमनस्थितः हर्षवशविसर्पद् हृदयः धाराहतकदम्बकुसुम रोमाञ्चितोच्छूितरोमकूपः विकसितवरकमलनयनवदनः प्रचलितवरकटकत्रुटिककेयूरमुकुटकुण्डलः हारविराजमानवक्षस्कः प्रालम्बप्रलम्बमानघोलद् भूषणधरः ससंभ्रमं त्वरितं चपलं सुरेन्द्रः सिंहासनादभ्युत्तिष्ठति, अभ्युस्थाय पादपीठात् प्रत्यवरोहति प्रत्यवरुह्य वैडूर्यवरिष्ठरिष्टाञ्जननिपुणोचितमिसिमिसिन्त मणिरत्नमण्डिते पादुके अवमुश्चति अवमुच्य एकशाटिकम् उत्तरासङ्गं करोति कृत्वा अञ्जलि मुकुलिताग्रहस्तः तीर्थङ्कराभिमुखः सप्ताष्टपदानि अनुगच्छति अनुगत्य वामं जानुम् आकुश्चयति आकुच्य दक्षिणं जानुं धरणीतले निहत्य विकृत्वः मूर्द्धानं धरणीतले निवेशयति, निवेश्य ईषत् प्रत्युन्नमति, प्रत्युग्नमित्वा कटकत्रुटिकस्तम्भितौ भुजौ संहरति संहृत्य करतल परिगृहीतं दशनखं शिरसावर्त मस्तके अञ्जलिं कृत्वा एवमवादी-नमोऽस्तु खलु अरिहन्तणां भगवताम् आदिकराणां तीर्थकराणां स्वयं संवृद्धानां पुरुषोत्तमानां पुरुषसिंहानां पुरुषवरपुण्डरीकाणां पुरुषवरगन्धहस्तिनां लोकोत्तमानां लोकनाथानां लोकहितानाम् लोकप्रदीपानां लोकप्रद्योतकराणाम् अभयदायकानाम् चक्षुर्दायकानां मार्गदकायानां शरणदायकानां जीवदायकानां बोधिदायकानां धर्मदायकानां धर्मदेशकानां धर्मनायकानां धर्मसारथिनां धर्मवरचातुरन्तचक्रवर्तिनी दीपः त्राणं शरणं गतिश्च प्रविष्टा अपतिहतज्ञानदर्शनधराणां विवृत्तछानां जिनानाम् जावकाना तोर्णानां तारकानां बुद्धानां बोधकानां मुक्तानां मोचकानां सर्वज्ञानां सर्वदर्शिनां शिवमचलमरुजमनन्तमक्षयमव्यावाधमपुनरावृत्ति सिद्धिगतिनामधेयं स्थान संप्राप्तानां नमो जिनानां जितभयानाम् नमोऽस्तु खलु भगवतस्तीर्थंकरस्य आदिकरस्य यावत् संपाप्तुकामस्य वन्दे खलु भगवन्तं तत्र गतम् इइगतः पश्यतु मां भगवान् तत्रगतः । इहगतम् इतिकृत्वा वन्दते नमस्यति वन्दित्वा नमस्यित्वा सिंहासनवरे पौरस्त्याभिमुखः संनिषण्णः ततः, खलु तस्य शक्रस्य देवेन्द्रस्य देवराजस्य अयमेतावद्रूपो यावत् संकल्पः समुदपद्यत उत्पन्नः खलु-भो जम्बूदीपे द्वीपे भगवांस्तीर्थकरः तस्माजीतमेतत्-अतीतपत्युस्पन्नानागतानां शक्राणां देवेन्द्रग्णाम् देवराजानां तीर्थकराणां जन्ममहिमानं कर्तुं तद्गच्छामि खलु अहमपि भगवतस्तीर्थकस्य जन्ममहिमानं करोमीतिकृत्वा एवं संप्रेक्षते संप्रेक्ष्य हरिणैगमेषीतिनामानं पदात्यनीकाधिपतिं देवं शब्दयति शब्दायित्वा एवमवादीत क्षिप्रमेव भो देवानांप्रिय ! सभायां सुधर्मायां मेघौधरसितां गंभीरमधुरतरशब्दाम् योजनपरिमण्डलां सुघोषां मुस्वरां घण्टां त्रिः कृत्वः उल्लालयन उल्लालयन् महता महता शब्देन उद्घोषयन् उद्घोषयन् एवं वदत आज्ञापयति भोः शक्रो देवेन्द्रो देवराजः गच्छति खलु भो शक्रो देवेन्द्रो देवराजः जम्बूद्वीपे द्वीपे भगवतस्तीर्थकरस्य जन्ममहिमानं कर्तुं तत् यूयमपि खलु देवानुमियाः જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy