SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ५४६ जम्बूद्वीपप्रज्ञप्तिसूत्रे भिश्च सार्द्ध सपरिवृताः तानि दिव्यानि यानविमानानि दुरोहन्ति दुरुह्य सर्वद्धर्या सर्वद्युत्या धनमृदङ्गपणवप्रवादितरवेण तया उत्कृष्टया यावत् देवगत्या यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव तीर्थकरस्य जन्म भवनं तत्रैव उपागच्छन्ति उपागत्य भगवतस्तीर्थकस्य जन्मभवनं तैः दिव्यैः यानविमानैः त्रिः कृत्व आदक्षिणप्रदक्षिणं कुर्वन्ति कृला उत्तरपौरस्त्ये दिग्भागे ईपच्चतुरङ्गुलमसम्प्राप्तानि धरणितले तानि दिव्यानि यानविमानानि. स्थापयन्ति स्थापयित्वा प्रत्येकं प्रत्येकं चतुर्भिः सामानिकसहस्रैः यावत्सार्द्ध संपरिवृताः दिव्येभ्यो यानविमानेभ्यः प्रत्यवरोहन्ति प्रत्यवरुह्य सर्वद्धर्या यावत नादितेन यत्रैव भगवान् तीर्थकरस्तीर्थरमाता च तत्रैव उपगच्छन्ति उपागत्य भगवन्तं तीर्थकरं तीर्थकरमातरं च त्रिः कृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति कृत्वा प्रत्येकं प्रत्येकं करतलपरिगृहीतं दशनखं शिरसावर्त मस्तके अञ्जलिं कृखा एवमवादिषुः नमोऽस्तु ते रत्नकुक्षिधारके जगत्प्रदीपदीपिके सर्वजगन्मङ्गलस्य चक्षुषश्च मुक्तस्य सर्वजगज्जीववत्सलस्य हितकारकमार्गदेशकचक्रऋद्धिविभु. प्रभुस्य जिनस्य ज्ञानिनः नायकस्य बुद्धस्य बोधकस्य सर्वलोकनाथस्य निममस्य प्रवरकुशल. समुद्भवस्य जात्या क्षत्रियस्य लोको तमस्य यदसि जननी तत् धन्याऽसि, पुण्याऽसि कृतार्थाऽसि वयं खलु हे देवानुप्रिय ! अधोलोकवास्तव्या अष्टौ दिक्कुमारी महतरिकाः भगवतस्तीर्थकरस्य जन्ममहिमानम् करिष्यामः तत् खलु युष्माभिर्न भेतव्यम् इति कृत्वा उत्तरपौरस्त्यं दिग्भागमपक्रामन्ति अपक्रम्य वैक्रियसमुदघातेन समबध्नन्ति समवहत्य सख्यातानि योजनानि दण्डं निस्जन्ति तद्यथा रत्नानां यावत् संवर्तकवातान् विकुर्वन्ति विकुळ तेन शिवेन मृदुकेन मारुतेन अनूद्धृतेन भूमितलविमलकरणेन मनोहरेण सर्वर्तुकसुरभिकुसुमगन्धानवासितेन पिण्डिमनिहोरिमेण गन्धोधुरेण तिर्यक् प्रवातेन भगवतस्तीर्थकरस्य जन्मभवनस्य सर्वतः समन्तात् योजनपरिमण्डलम्, स यथानामकः कर्मकारदारकः स्यात् यावत् तथैव यत् तत्र तृणं वा पत्रं वा काष्ठं वा कचवरं वा अशुचि अचोक्षम् पूतिकम् दुरभिगन्धं तत्सर्वम् आधूय आधृय एकान्ते एडयन्ति एडयित्वा यत्रैव भगवान् तीर्थकर स्तीर्थकरमाता च तत्रैव उपागच्छन्ति उपागत्य भगवस्तीर्थकरस्य तीर्थकरमातुश्च अदूरसामन्ते आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति ॥सू० १॥ टीका-"जया णं" इत्यादि । 'जया णं एक्कमेक्के चक्कवट्टि विजये भगवंतो तित्थयरा समुप्पज्जति' यदा खलु यस्मिन् काले किल एकैकस्मिन् चक्रवत्ति विजये क्षेत्रखण्डे भरते पंचम वक्षस्कार का कथन प्रारंभ'जया णं एक्कमेक्के चक्कवट्टि विजए-' इत्यादि इस सूत्र द्वारा सूत्रकार जिनेन्द्र देव के जन्माभिषेक का वर्णन करते हुए પાંચમા વક્ષસ્કારનો પ્રારંભ 'जया णं एक्कमेक्के चक्कवट्टि विजए' इत्यादि ટીકા—આ સૂત્ર વડે સૂત્રકાર જિનેન્દ્ર દેવના જન્માભિષેકનું વર્ણન કરતાં કહે છે– 'जया णं एक्कमेक्के चक्कवट्टिविजए' न्यारे मे४- यती वितव्य क्षेत्र म ३५ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy