SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५२० जम्बूद्वीपप्रज्ञप्तिसूत्रे छाया-क खल भदन्त ! जम्बूद्वीपे द्वीपे रम्यकं नाम वर्ष प्रज्ञप्तम् १, गौतम ! नीलवत उत्तरेण रुक्मिणो दक्षिणेन पौरस्त्यलचणसमुद्रस्य पश्चिमेन पश्चिमलवणसमुद्रस्य पौरस्त्येन एवं यथैव हरिव तथैव रम्यकं वर्ष भणितव्यं, नवरं दक्षिणेन जीवा उत्तरेण धनु: अवशेष तदेव । क्व खलु भदन्त ! रम्यके वर्षे गन्धापाती नाम वृत्तवैताढयपर्वतः प्रज्ञप्तः ?, गौतम ! नरकान्तायाः पश्चिमेन नारीकान्तायाः पौरस्त्येन रम्यकवर्षस्य बहुमध्यदेशमागे अत्र खलु गन्धापाती नाम वृत्तवैताढयः पर्वतः प्रज्ञप्तः, यदेव विकटापातिनस्तदेव गन्धापातिनोऽपि वक्तव्यम् , अर्थों बहूनि उत्पलानि यावद् गन्धापातिवर्णानि गन्धापातिप्रभाणि पद्मश्चात्र देवो महद्धिको यावत् पल्योपमस्थितिकः परिवसति, राजधानी उत्तरेणेति अथ केनार्थेन भदन्त ! एवमुच्यते-रम्यक वर्षम् २ ?, गौतम ! रम्यकवर्ष खलु रम्यं रम्यकं रमणीयं रम्यकश्चात्र देवो यावत् परिवस ति, तत् तेनार्थेन । क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे रुक्मीनाम वर्षधरपर्वतः प्रज्ञप्तः ?, गौतम ! रम्यवर्षस्य उत्तरेण हैरण्यवतवर्षस्य दक्षिणेन पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिमलवण समुद्रस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे रुक्मी नाम वर्षधरपर्वतः प्रज्ञप्तः प्राचीनप्रतीचीनायतः उदीचीनदक्षिणविस्तीर्णः, एवं यैव महाहिमवद्वक्तव्यता सैव रुक्मिणोऽपि, नवरं दक्षिणेन जीवा उत्तरेण धणुः अवशेषं तदेव महापुण्डरीको हदः नरकान्ता नदी दक्षिणेन नेतव्या यथा रोहिता पौरस्त्येन गच्छति, रूप्यकूला उत्तरेण नेतव्या यथा हरिकान्ता पश्चिमेन गच्छति, अवशेषं तदवेति । रुक्मिणि खलु भदन्त ! वर्षधरपर्वते कतिकूटानि प्रज्ञप्तानि ? गौतम ! अष्ट कूटानि प्रज्ञप्तानि, तद्यथा-सिद्धं १ रुक्मि २ रम्यकं ३ नरकान्ता ४ बुद्धि ५ रुप्यकूला ६ च । हैरण्यवतं ७ मणिकाञ्चन ८ मष्ट च रुक्मिणि कूटानि ॥१॥ सर्वाग्यपि एतानि पञ्चशतिकानि, राजधान्य उत्तरेण । अथ केनार्थेन भदन्त ! एवमुच्यते-रुक्मी वर्षधरपर्वतः २१, गौतम ! रुक्मी खलु वर्षधरपर्वतः रुक्मी रूप्यपट्टः रूप्यावभासः सर्वरूप्यमयः रुक्मीचात्र देवः यावत् पल्योपमस्थितिकः परिवसति, स तेनार्थेन गौतम ! एवमुच्यत इति । क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे हैरण्यवतं नाम वर्ष प्रज्ञप्तम ?, गौतम ! रुक्मिण उत्तरेण शिस्वारिणो दक्षिणेन पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिमलवण. समुद्रस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे हैरण्यवतं वर्ष प्रज्ञप्तम्, एवं यथैव हैमवतं तथैव हैरण्यवतमपि भणितव्यम्, नवरं जीवा दक्षिणेन उत्तरेण धनुः अवशिष्टं तदेवेति । क्व खलु भदन्त ! हैरण्यवते वर्षे माल्यवत्पर्यायो नाम वृत्तवैताढ्यपर्वतः प्रज्ञाम: ?, गौतम ! सुवर्णकूलायाः पश्चिमेन रूप्यकूलायाः पौरस्त्येन अत्र खलु हैरण्यवतस्य वर्षस्य बहुमध्यदेशभागे माल्यवत् पर्यायो नाम वृत्तवैताढयः प्रज्ञप्तः यथैव शब्दापाती तथैव माल्यवत्पर्यायोऽपि, अर्थ उत्पलानि पानि माल्यवत्प्रभाणि माल्यवद्वर्णानि माल्यवद्वर्णाभानि प्रभासश्चात्र देवो महद्धिको यावत् पल्योपमस्थितिकः परिवसति, स एतेनार्थेन०, राजधानी उत्तरेणेति । अथ केनार्थेन भदन्त ! एवमुच्यते-हैरण्यवतं वर्षम् २ १, गौतम ! हैरण्यवतं खलु वर्ष रुक्मि शिखरिभ्यां वर्षधरपर्वताभ्यां द्विधातः समुपगूढं नित्यं हिरण्यं ददाति नित्यं हिरण्यं मुश्चति नित्यं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy