SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ४ गङ्गासिन्धुमहानदीस्वरूपनिरूपणम् ३९ त्रिसोपानप्रतिरूपकाणाम् अयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-चत्रमयाः नेमाः, रिष्टम यानि प्रतिष्ठानानि, वैडूर्यमयाः स्तम्भाः, सुवर्णरुप्यमयानि फलकानि, लोहिताक्षमस्य: सूचयः, वज्रमयाः सन्धयः, नानामणिमयानि आलम्बनानि आलम्बनबाहा इति । तेषां खलु त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकंर तोरणाः प्रज्ञप्ताः । ते खलु तोरणा नानामणिमयाः नानामणिमयेषु स्तम्भेषु उपनिविष्टसंनिविष्टाः विविधमुक्तान्तरोपचिताः विविधतारारूपोपचिताः ईहामृगवृषभतुरगनरमकरविहगव्यालककिन्नररुरुशरभचमरकुचरवनलतापमलता भक्तिचित्राः स्तम्भोगतवज्रवेदिका परिगताभिरामाः विद्याधरयमलयुगलयन्त्रयुक्ता इव अचिः सहस्रमालनिकाः रूपकसहस्रकलिताः भासमानाः बाभास्यमानाः चक्षुलौंकनश्लेषाः सुखस्पर्शाः सश्रीकरूपाः घण्टावलिचलितमधुरमनोहरस्वराः प्रासादीया: ४ । तेषां खलु तोरणानामुपरि बहून्यष्टाष्टमङ्गलकानि प्रज्ञप्तानि, तद्यथा-स्वस्तिकं१ श्रीवत्सः२ यावत्प्रतिरूपाणि४ । तेषां खलु तोरणानामुपरि बहवः कृष्णचामरध्वजाः यावत् शुक्लचामरध्वजाः अच्छाः श्लक्ष्णाः रूप्यपट्ठाः वज्रमयदण्डाः जलजामलगन्धिकाः सुरम्याः प्रासादीयाः घण्टायुगलानि चामरयुगलानि उत्पलहस्तका:-पद्महस्तकाः यावत् शतसहस्रपत्रहस्तकाः सर्वरत्नमयाः अच्छा. यावत् प्रतिरूपाः । तस्य खलु गङ्गाप्रपातकुण्डस्य बहुमध्यदेशभागे अत्र खलु महानेको गङ्गाद्वीपो नाम द्वीपः प्रज्ञप्तः, अष्टयोजनानि आयामविष्कम्भेण सातिरेकाणि पञ्चविंशति योजनानि परिक्षेपेण, द्वौ क्रोशाबुच्छ्रितो जलन्तात् , सर्ववज्रमयः अच्छः श्लक्ष्णः । स खलु एकया पद्मवरवेदिकया एकेन वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्तः वर्णको भणितव्यः । गङ्गा द्वीपस्य खल द्वीपस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः। तस्य खलु बहुमध्यदेशभागे अत्र खलु एकं महद गङ्गाया देव्या एकं भवनं प्रज्ञप्तम् , क्रोशमायामेन अर्द्धकोशं विष्कम्भेण देशोनकं च क्रोशमूर्ध्वमुच्चत्वेन अनेक स्तम्मशतसन्निविष्टं यावद बहुमध्यदेशभागे मणिपीठिकायां शयनीयम् । अथ केनार्थेन यावत् शाश्वतं नामधेय प्रज्ञप्तम् । सू० ४॥ टीका-'तस्स णं' इत्यादि । 'तस्स णं' तस्य अनन्तरोक्तस्य खलु 'पउमद्दहस्स' पद्महदस्य 'पुरथिमिल्लेणं' पौरस्त्येन पूर्वदिग्भवेन 'तोरणेणं' तोरणेन 'गंगा' गङ्गा-गङ्गानाम्नी 'महानई' महानदी-स्वपरिवारभूतचतुर्दशसहस्र नदी सम्पन्नत्वेन स्वतन्त्रतया समुद्रगामित्वेन गंगा सिन्धु महानदियों के स्वरूप का कथन 'तस्स णं पउमद्दहस्स पुरथिमिल्लेणं तोरणेणं' । टीकार्थ-(तस्स णं पउमदहस्स पुरस्थिमिल्लेणं तोरणेणं) उस पद्महूद के पूर्व दिगवर्ती तोरण से (गंगा महाणई पढा समाणी पुरत्थाभिमुही पंचजोयणसयाई ગંગા–સિધુ મહાનદીઓના સ્વરૂપનું કથન'तस्स णं पउमदहस्स पुराथिम्मिल्लेणं तोरणेणं इत्यादि' टी-'तस्स णं पउमदहस्स पुरथिम्मिल्लेणं तोरणेणं' ते ५मना पूर्व हिवती तरथी 'गंगा महाणई पवूढा समाणी पुरत्थाभिमुही पश्चजोयणसयाई पव्वएणं गता गंगा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy